वैशम्पायनः-
तस्मिन्काले समागम्य सर्वे तत्रास्य बान्धवाः
रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे
सर्वे संहृष्टरोमाणस्सन्त्रस्ताः प्रेक्ष्य कीचकम्
तथा सर्वाङ्गसम्भुग्नं कूर्मं स्थल इवोद्धृतम्
तं हतं भीमसेनेन महेन्द्रेणेव दानवम्
कीचकं बलसम्मत्तं दुर्धर्षं येन केन चित्
गन्धर्वेण हतं श्रुत्वा कीचकं पुरुषर्षभम्
संस्कारयितुमिच्छन्तो बहिर्नेतुं प्रचक्रमुः
अपश्यन्नथ ते कृष्णां सूतपुत्रास्समागताः
अदूरादनवद्याङ्गीं स्तम्भमालम्ब्य तिष्ठतीम्
समवेतेषु सर्वेषु तानुवाचोपकीचकः
हसन्निव तदाऽमर्षान्निर्दहन्निव चक्षुषा
उपकीचकः-
हन्यतां शीघ्रमसती यत्कृते कीचको हतः
अथवा नैव हन्तव्या दह्यतां कामिना सह
मृतस्यापि प्रियं कार्यं सूतपुत्रस्य सर्वथा
इयं हि दुष्टचरिता मम भ्रातुरमित्रिणी
यत्कृते मरणं प्राप्तो नेयं जीवितुमर्हति
सहेयं दह्यतां सूता आपृच्छ्य च जनाधिपम्
हतस्यापि हि गन्धर्वैः कीचकस्य प्रियं भवेत्
वैशम्पायनः-
सूताः-
ततो विराटमागम्य सूताः प्राञ्जलयोऽब्रुवन्
कीचकोऽयं हतश्शेते गन्धर्वैः कामरूपिभिः
सैरन्ध्र्या घातितो रात्रौ तं दहेम सहानया
मानितास्स्मस्त्वया राजंस्तदनुज्ञातुमर्हसि
वैशम्पायनः-
पराक्रमं तु सूतानां ज्ञात्वा राजाऽन्वमन्यत
सैरन्ध्र्यास्सूतपुत्रेण सह दाहं जनाधिपः
ततस्ते समनुज्ञातास्सर्वे तत्रास्य बान्धवाः
रुरुदुः कीचकं दृष्ट्वा परिवार्योपतस्थिरे
आरोप्य कृष्णामथ कीचकेन निबध्य केशेषु च पादयोश्च
ते चापि सूता वचनैरवोचन्नुद्दिश्य कृष्णामभिवीक्ष्य चैनाम्
सूताः-
यस्याः कृतेऽयं निहतो महात्मा तस्माद्धि सा कीचकमार्गमेतु
अनर्घ्यसत्वेन सहार्यसत्त्वा गतासुना सुन्दरि कीचकेन
वैशम्पायनः-
साऽशेत कृष्णा शयने निबद्धा मनस्विनी चैव यशस्विनी च
निवेपमाना विवशा हि दुष्टैस्तत्रैव पर्यङ्कवरे शुभाङ्गी
ह्रियमाणाऽथ सुश्रोणी सूतपुत्रैरनिन्दिता
प्राक्रोशन्नाथमिच्छन्ती कृष्णा नाथवती सती
द्रौपदी-
जयो जयेशो विजयो जयत्सेनो जयद्बलः
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्
येषां दुन्दुभिनिर्घोषो ज्याघोषश्श्रूयते महान्
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्
येषां ज्यातलनिर्घोषो विष्फूर्जितमिवाशनेः
अश्रूयत महान्युद्धे भीमघोषस्तरस्विनाम्
रथघोषश्च बलवान्गन्धर्वाणां तरस्विनाम्
ते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम्
येषां धैर्यमतुल्यं तु शक्रस्येव बलं यशः
राजसिंहा इवाग्र्यास्ते मां जानन्तु सुदुःखिताम्
वैशम्पायनः-
इत्यस्याः कृपणा वाचः कृष्णायाः परिदेविताः
श्रुत्वैवाभ्युत्थितो भीमश्शयनादविचारयन्
भीमः-
अहं सैरन्ध्रि ते वाचश्शृणोमि तव भाषिताः
तस्मात्ते सूतपुत्रेभ्यो भयं जातु न विद्यते
वैशम्पायनः-
इत्युक्त्वा स महाबाहुर्विजजृम्भे जिघांसया
ततस्स व्यायतं बद्ध्वा वस्त्रं च परिवेष्ट्य च
अद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस्तदा
स लङ्घयित्वा प्राकारमारुह्य तरसा द्रुमम्
श्मशानाभिमुखः प्रायाद्यतस्ते कीचका गताः
स लङ्घयित्वा प्राकारं निःसृत्य च पुरोत्तमात्
जवेनोत्पतितो भीमस्सूतानामग्रतस्तदा
चितासमीपं गत्वा तु तत्रापश्यन्महाबलः
तालमात्रं महास्कन्धमूर्ध्वशुष्कं वनस्पतिम्
तं नागवदुपक्रम्य बाहुभ्यां परिरभ्य च
वृक्षमुत्पाटयामास भीमो भीमपराक्रमः
ततो वृक्षं दशव्यामं निष्पत्रमकरोत्तदा
तं महासाालमुद्यम्य भ्रामयित्वा च वेगितः
प्रगृह्याभ्यपतत्सूतान्दण्डपाणिरिवान्तकः
ऊरुवेगेन तस्याथ न्यग्रोधाश्वत्थकिंशुकाः
भूमौ निपतिता वृक्षास्सभग्नास्तत्र शेरते
तं सिंहमिव सङ्क्रुद्धं दृष्ट्वा गन्धर्वमागतम्
वित्रेसुस्सर्वतस्सूता विषादभयपीडिताः
तमन्तकमिव क्रुद्धं गन्धर्वभयशङ्किताः
दिधक्षन्तस्तथा ज्येष्ठं भ्रातरं चोपकीचकाः
परस्परमथोचुस्ते विषादभयमोहिताः
उपकीचकाः-
गन्धर्वो बलवानेति क्रुद्ध उद्यम्य पादपम्
प्रबुद्धास्सुमहाभागा गन्धर्वास्सूर्यवर्चसः
सैरन्ध्री मुच्यतां शीघ्रं भयं नो महदागतम्
वैशम्पायनः-
तेऽथ दृष्ट्वा तमाविद्धं भीमसेनेन पादपम्
विमुच्य द्रौपदीं तूर्णं प्राद्रवन्नगरं प्रति
द्रवतस्तांश्च सम्प्रेक्ष्य स वज्री दानवानिव
शतं पञ्चाधिकं भीमः प्राहिणोद्यमसादनम्
वायुवेगसमश्श्रीमान्सर्वान्सूतानशेषतः
तान्निहत्य महाबाहुर्भीमसेनो महाबलः
आश्वासयंस्ततः कृष्णां प्रतिमुच्य च बन्धनात्
उवाच च महाबाहुः पाञ्चालीं भरतर्षभः
अश्रुपूर्णमुखीं भीतामुद्धरन्स वृकोदरः
भीमः-
एवं ते भीरु वध्यन्ते ये त्वां हिंसन्ति मानवाः
गच्छ त्वं नगरं कृष्णे न भयं विद्यते तव
अन्येन च पथा शीघ्रं सुदेष्णाया निवेशनम्
अन्येनाहं गमिष्यामि विराटस्य महानसम्
यथा नौ नावबुध्येरन्रात्रावेवं व्यवस्थितौ
वैशम्पायनः-
साऽगच्छन्नगरं कृष्णा भीमेनाश्वासिता सती
कृतकृत्या सुदेष्णाया भवनं शुभलक्षणा
शचीव नहुषे शप्ते प्रविवेश त्रिविष्टपम्
भीमोऽप्यमितवीर्यस्तु बलवानरिमर्दनः
सर्वांस्तान्कीचकान्हत्वा तत्र धर्मात्मजानुजः
निश्शेषं कीचकान्कृत्वा रामो रात्रिचरानिव
जितशत्रुरदीनात्मा प्रविवेश पुरं ततः
पञ्चाधिकं शतं तत्र निहतं तेन भारत
महावनमिव छिन्नं शिश्ये विगलितद्रुमम्
एवं ते निहता राजञ्शतं पञ्चोपकीचकाः
स च सेनापतिस्सूत इत्येतत्सूतषट्शतम्
न गन्धर्वभयाच्छेकुर्वक्तुं कीचकबान्धवाः
अशक्नुवन्तस्तां तत्र भयादप्यभिवीक्षितुम्
विराटनगरे चापि सर्वे मात्स्याः समागताः
काल्यं पञ्चशतं चैतानपश्यन्सारथीन्हतान्
तान्दृष्ट्वा महदाश्चर्यं नरा नार्यश्च नागराः
विस्मयं परमं गत्वा नोचुः किञ्चन भारत