भीमः-
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
अद्यैनं निहनिष्यामि कीचकं सह बान्धवैः
अस्याः प्रदोषे शर्वर्याः कुरुष्वानेन संविदम्
दुःखं शोकं च निर्धूय याज्ञसेनि शुचिस्मिते
यदेतन्नर्तनागारं मत्स्यराजेन कारिता
दिवाऽत्र कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहम्
तत्रास्ति शयनं भीरु दृढाङ्गं सुप्रतिष्ठितम्
तत्रैनं दर्शयिष्यामि पूर्वप्रेतान्पितामहान्
त्वद्दर्शनसमुत्थेन कामेनाकुलितेन्द्रियम्
सङ्केतं सूतपुत्रस्य कारयस्व शुभानने
यथा परे न पश्येयुः कुर्वन्तीं तेन संविदम्
वैशम्पायनः-
तथा कुरुष्व कल्याणि यथा सन्निहितो भवेत्
तत्र तौ कथयित्वा तु बाष्पमुत्सृज्य दुःखितौ
भीमस्य च प्रतिज्ञां तां कीचकस्य वधे तदा
विदित्वा द्रौपदी तत्र प्रविवेश पुनर्गृहम्
रात्रिशेषं तदव्यग्रा धारयामास वै हृदि
तस्यां रजन्यां व्युष्टायां प्रातरुत्थाय कीचकः
गत्वा राजकुलायैव द्रौपदीमिदमब्रवीत्
कीचकः-
यत्त्वाऽहं पश्यतो राज्ञो ह्यनुधावनमाचरम्
न कञ्चिल्लभसे नाथमभिपन्ना बलीयसा
प्रवादेनेह मात्स्यानामयं राजेति चोच्यते
अहमेव हि राजा वै मात्स्यानां वाहिनीपतिः
सा सुखं प्रतिपद्यस्व दासो भीरु भवामि ते
न ह्यहं त्वामृते भीरु चिरं जीवितुमुत्सहे
अहन्यहनि सुश्रोणि शतनिष्कं ददामि ते
दासीशतं च ते दद्यां दासानामपि चापरम्
रथाश्चाश्वतरीयुक्तास्सन्तु ते भीरु सङ्गमे
सैरन्ध्री-
एतन्मे वचनं सत्यं प्रतिपद्यस्व कीचक
न ते सखा वा भ्राता वा जानीयात्सङ्गमं मया
अनुबोधादनर्थस्स्यादयशश्च महद्भवेत्
अनुबोधाद्धि भीताऽस्मि गन्धर्वाणां यशस्विनाम्
कीचकः-
एतन्मे प्रतिजानीहि ततोऽहं वशगा तव
एवमेतत्करिष्यामि यथा सुश्रोणि भाषसे
एकोऽहमागमिष्यामि शून्यमावसथं तव
समागमार्थं रम्भोरु त्वया मदनदर्पितः
यथा त्वां नावबुध्येरन्गन्धर्वास्सूर्यवर्चसः
द्रौपदी-
यदिदं नर्तनागारं मात्स्यराजेन कारितम्
दिवा तु कन्या नृत्यन्ति रात्रौ यान्ति स्वकं गृहम्
निशायां तत्र गच्छेथा गन्धर्वास्तन्न जानते
तत्र दोषः परिहृतो भविष्यति न संशयः
कीचकः-
एकस्सन्नर्तनागारं रात्रौ सङ्केतमाव्रज
तत्राहं वशगा तुभ्यं भविता नात्र संशयः
तथा भद्रे करिष्यामि यथा त्वं भीरु मन्यसे
एकस्सन्नर्तनागारमागमिष्यामि शोभने
समागमार्थं सुश्रोणि शपे च सुकृतेन मे
यथा त्वां नावबुध्यन्ते गन्धर्वा वरवर्णिनि
सत्यं ते प्रतिजानामि गन्धर्वेभ्यो न ते भयम्
अलङ्करिष्याम्यद्याहं त्वत्समागमनाय वै
वैशम्पायनः-
तमर्थं सह जल्पन्त्या द्रौपद्याः कीचकस्य वै
क्षणमात्रं तदभवन्मासेनैव समं नृप
कीचकोऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः
सैरन्ध्रीरूपिणीं मूढो मृत्युं तां नावबुद्धवान्
गन्धाभरणमाल्येषु व्यासक्तस्स विशेषतः
अलङ्कारं चकाराशु सत्वरः काममोहितः
तस्य तत्कुर्वतः कर्म कालो दीर्घ इवाभवत्
अनुचिन्तयतश्चापि तामेवायतलोचनाम्
आसीदभ्यधिका च श्रीश्श्रियं हि प्रमुमुक्षतः
निर्वाणकाले दीपस्य वर्तीमिव दिधक्षतः
श्रुतसम्प्रत्ययस्तत्र कीचकः काममोहितः
नाजानात्पतनं स्वस्य चिन्तयंस्तां शुभाननाम्
ततस्तु द्रौपदी गत्वा भीमसेनं महानसे
उपातिष्ठत कल्याणी कौरव्यं पतिमन्तिकात्
तमुवाच सुकेशान्ता कीचकस्य कृतो मया
सङ्केतो नर्तनागारे यथा चोक्तं नरर्षभ
कालेन नियतं बद्धः कामेन च बलात्कृतः
शून्यं स नर्तनागारमागमिष्यति सूतजः
एको निशि महाबाहो कीचकं तं निषूदय
तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम्
गत्वा त्वं नर्तनागारे निर्जीवं कुरु पाण्डव
गर्वितस्सूतपुत्रोऽसौ गन्धर्वानवमन्यते
स त्वं प्रहरतां श्रेष्ठ नालं नाग इवारुज
आस्रं दुःखाभिभूताया मम मार्जस्व पाण्डव
बाहुवीर्यानुरूपं च दर्शयाद्य पराक्रमम्
आत्मनश्चैव भद्रं ते कुरु मानं कुलस्य च
भीमः-
स्वागतं ते सुकेशान्ते यन्मां वेदयसे प्रियम्
नह्यस्य कञ्चिदिच्छामि सहायं वरवर्णिनि
या मे प्रीतिस्त्वयाऽऽख्याता कीचकस्य समागमे
हत्वा हिडिम्बं या प्रीतिस्सा ममासीच्छुचिस्मिते
सत्यं भ्रातॄंश्च पुत्रांश्च पुरस्कृत्य शपामि ते
कीचकं निहनिष्यामि वृत्रं देवपतिर्यथा
प्रसह्य निहनिष्यामि केशवः केशिनं यथा
रहस्यं वा प्रकाशं वा सूदयिष्यामि कीचकम्
यस्त्वां कामाभिभूतात्मा दुर्लभामभिमन्यते
अथ चेदनुबुध्यन्ति सूतपुत्रं मया हतम्
निर्मनुष्यं करिष्यामि मत्स्यानामिममालयम्
मया हतांश्चेन्मात्स्यांस्तु धार्तराष्ट्रोऽनुबुध्यते
दुर्योधनं ततो हत्वा सानुबन्धं सबान्धवम्
कुरूणामखिलं राज्यं प्रतिपत्स्यामि भामिनि
नाहं शक्तोऽनुनयितुं कुन्तीपुत्रं युधिष्ठिरम्
कामं सत्यमुपासीत कुन्तीपुत्रो युधिष्ठिरः
काममन्ये ह्युपासन्तु विनीतं धर्मचारिणम्
त्वां तु दुःखमिदं प्राप्तां नाहं शक्नोम्युपेक्षितुम्
निर्वृता भव पाञ्चालि कीचकस्य वधात्पुनः
द्रौपदी-
कीचकस्य वधं भीम यदि जानन्ति नागराः
त्वया कृतं महाबाहो नाहं जीवितुमुत्सहे
कथं सत्याच्च नापेयाद्राजाऽयं मत्कृते प्रभो
निगृह्णंस्तं तथा भीम कीचकं विनिपातय
यथा न कश्चिज्जानीते सूतपुत्रं त्वया हतम्
तथा कुरुष्व कौरव्य बलवन्नरिमर्दन
अदृश्यमानस्त्वं तस्य भिन्धि प्राणानरिन्दम
भीमः-
तथा भद्रे करिष्यामि यथा त्वं भीरु भाषसे
अदृश्यमानस्तस्याहं तमिस्रायां सकुण्डलम्
नागो बिल्वमिवाक्रम्य पोथयिष्यामि तच्छिरः
अलभ्यामिच्छतस्तस्य कीचकस्य दुरात्मनः
वैशम्पायनः-
एवमुक्त्वा महाबाहुस्तत्र पाण्डवनन्दनः
अर्धरात्रे तदोत्थाय सत्ववान्भीमविक्रमः
अवदातेन मृदुना पटेनाच्छादितस्तथा
द्रौपदीं पृष्ठतः कृत्वा यत्रासीन्नर्तनालयः
स भीमः प्रथमं गत्वा तमिस्रायामुपाविशत्
मृगं सिंह इवादृश्यः प्रत्याकाङ्क्षत्स कीचकम्
कीचकस्तु शिरस्स्नातो निशायां समलङ्कृतः
सङ्केतमगमत्तूर्णं शून्यागारमपावृतम्
तदेव नर्तनागारं पाञ्चाली यदभाषत
तां मन्यमानस्सङ्केते सैरन्ध्रीं काममोहितः
प्रविश्य नर्तनागारं ततस्तं पुरुषर्षभम्
पूर्वागतं भीमसेनं दृप्तमप्रतिमौजसम्
शयानं शयने तं स मृत्युं मूढः परामृशत्
जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन च
उपसङ्गम्य चैवैनं कीचकः काममोहितः
हर्षोन्मथितचित्तात्मा स्मयमानोऽभ्यभाषत
कीचकः-
प्रहितं ते मया भद्रे बहु वित्तं शुचिस्मिते
त्वयि तिष्ठतु तत्सर्वं यथाऽसि स्वयमागता
नाकस्मान्मां प्रशंसन्ति सदा गृहगतास्स्त्रियः
बलवान्दर्शनीयश्च नान्यस्ते सदृशः पुमान्
अहं रूपेण सम्पन्नस्स्नातो भूषणभूषितः
नित्यमेव प्रियः स्त्रीणां सौभाग्यात्प्रियदर्शनः
रूपस्यास्य मया प्राप्तं फलं कमललोचने
भीमः-
दिष्ट्या त्वं दर्शनीयोसि दिष्ट्याऽऽत्मानं प्रशंससि
त्वयाऽपीदृग्गुणा नारी शीलरूपसमन्विता
अदृष्टपूर्वा पश्येमां यतो जानासि सूतज
द्रक्ष्यसि त्वं मुहूर्तेन यथेयं स्त्रीगुणान्विता
उपरंस्यसि कामाच्च शीघ्रं त्वं द्रष्टुमर्हसि
एवमङ्गस्य संस्पर्शो न ते दृष्टः कदाचन
वैशम्पायनः-
इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः
समुत्पत्य च कौन्तेयः प्रहस्य च नराधिपम्
भीमो जग्राह केशेषु माल्यवत्सु सुगन्धिषु
गृहीत्वा कीचकं भीमो विरराज महाबलः
महावने ग्रासकामस्सिंहः क्षुद्रमृगं यथा
स केशेषु परामृष्टो बलेन बलिनां वरः
आक्षिप्य केशान्वेगेन बाह्वोर्जग्राह पाण्डवम्
बाहुयुद्धं तयोरासीत्क्रुद्धयोर्नरसिंहयोः
वसन्ते वाशिताहेतोर्बलिनोरिव नागयोः
शार्दूलाविव गर्जन्तौ तार्क्ष्यनागाविवोद्यतौ
समयत्नौ समक्रोधौ पतितौ भीमकीचकौ
गजाविव मदोन्मत्तौ गर्जन्तौ पतितौ क्षितौ
वृषभाविव वल्मीकं मृद्नन्तौ समविक्रमौ
ईषदागलितं चापि क्रोधाच्चालपदं स्थितम्
कीचको बलवान्भीमं जानुभ्यां पातयद्भुवि
पातितो भीमसेनस्तु कीचकेन बलीयसा
उत्पपाताथ वेगेन दण्डाहत इवोरगः
स्पर्धया च बलोन्मत्तौ तावुभौ भीमकीचकौ
निश्शब्दं पर्यकर्षेतामन्योन्यस्य विनिर्जये
ततस्तद्भवनश्रेष्ठं प्राकम्पत तदा भृशम्
तौ क्रोधवशमापन्नावन्योन्यमभिजघ्नतुः
तलाभ्यां भीमसेनेन वक्षस्यभिहतो भृशम्
कीचको रोषताम्राक्षो न चचाल पदात्पदम्
मुहूर्तमशकत्सोढुं वेगं तस्य महात्मनः
कीचको भीमसेनस्य पश्चात्पश्चादहीयत
तं हीयमानं विज्ञाय भीमसेनो महाबलः
वक्षस्यानीय वेगेन प्रममाथ विचेतसम्
क्रोधाविष्टो विनिश्वस्य पुनश्चैनं वृकोदरः
जग्राह जयतांश्रेष्ठः केशेष्वेव भृशं तदा
गृहीत्वा कीचकं भीमो विरराज महाबलः
आमिषार्थे गृहीत्वैव शार्दूलो मृगयूथपम्
पुनश्चातिबलस्तत्र कीचको बलदर्पितः
व्यायच्छन्नेव दुर्धर्षः पाण्डवेन यशस्विना
मुष्टिना भीमसेनेन शिरस्यभिहतो भृशम्
कीचको वृत्तरक्ताक्षो गतासुरपतद्भुवि
तस्य पादौ च पाणी च शिरोग्रीवां सकुण्डलम्
काये प्रवेशयामास मृदित्वाऽङ्गानि सर्वशः
स तं मथितसर्वाङ्गं मांसपिण्डमिवाकरोत्
तत्राग्निं स्वयमुज्ज्वाल्य दर्शयामास कीचकम्
कृष्णां प्रोवाच भीमस्तु पश्येयं भृशकामुकम्
भीमः-
उवाच च महातेजा द्रौपदीं पाणडुनन्दनः
पश्यैनमेहि पाञ्चालि कामक्रोधकृतागसम्
प्रार्थयन्ते सुकेशान्ते ये त्वां शीलसमन्विताम्
एवं स्वप्स्यन्ति ते भीरु शेतेऽयं कीचको यथा
वैशम्पायनः-
तथा स कीचकं हत्वा गत्वा रोषस्य निष्कृतिम्
आमन्त्र्य द्रौपदीं पश्चात्क्षिप्रमायान्महानसम्
स्नात्वाऽनुलेपनं कृत्वा प्रपूर्य च मनोरथम्
सुखोपविष्टश्शयने भीमो भीमपराक्रमः
ततः कृष्णा यदा मेने गतं भीमं महानसे
कीचकं घातयित्वा च द्रौपदी योषितां वरा
प्रहृष्टा गतसन्त्रासा सभापालानुवाच ह
द्रौपदी-
कीचकोऽयं हतश्शेते गन्धर्वैः पतिभिर्मम
परस्त्रीकामसन्तप्तं तदागच्छत पश्यत
वैशम्पायनः-
तच्छ्रुत्वा भाषितं तस्या नर्तनागाररक्षिणः
सहसैव तदा जग्मुरुल्कामादाय सर्वशः
तत्र तं निहतं श्रुत्वा कीचकस्य सहोदराः
ततो गत्वाऽथ तद्वेश्म कीचकं विनिपातितम्
गतासुं ददृशुर्भूमौ रुधिरेण समुक्षितम्
पाणिपादशिरोहीनं दृष्ट्वा ते विस्मियं गताः
क्वास्य ग्रीवा क्व चरणौ क्व पाणी क्व शिरः क्व दृक्
इति तं सुपरीक्षन्ते गन्धर्वेण हतं तदा