द्रौपदी-
अहं सैरन्ध्रिवेषेण वसन्ती राजवेश्मनि
वशगाऽस्मि सुदेष्णाया ह्यक्षधूर्तस्य कारणात्
विक्रियां पश्य मे तीव्रां राजपुत्र्याः परन्तप
आसे कालमुपासीना सर्वदुःखसहा पुनः
अनित्याः खलु मर्त्यानामर्थाश्च व्यसनानि च
इति मत्वा प्रतीक्षामि भर्तॄणामुदयं पुनः
य एव हेतुर्भवति पुरुषस्य जयावहः
पराजये च हेतुस्स इति च प्रतिपालये
दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्त एव ते
मानयित्वा च मान्यन्ते परैरिति च मे श्रुतम्
न दैवस्यातिभारोऽस्ति न दैवस्यातिवर्तनम्
इति मात्वाऽऽगमं भूयो दैवस्य प्रतिपालये
स्थितं पूर्वं जलं यत्र न पुनस्तत्र तिष्ठति
इति पर्यायमिच्छन्ती प्रतीक्षाम्युदयं पुनः
दैवेन किल यस्यार्थस्सुनीतोपि विपद्यते
दैवस्यैवागमे यत्नस्तेन कार्यो विजानता
किन्नु मे वचनस्याद्य कथितस्य प्रयोजनम्
पृच्छ मां दुःखितामेनामपृष्टाऽपि ब्रवीमि ते
महिषी पाण्डुपुत्राणां दुहिता द्रुपदस्य च
इमामवस्थां सम्प्राप्ता मदन्या का जिजीविषेत्
कुरून्परिहरन्सर्वान्पाञ्चालानपि भारत
पाण्डवेयांश्च सम्प्राप्तो मम क्लेशो ह्यरिन्दम
भ्रातृभिश्श्वशुरैः पुत्रैर्बहुभिः परिवीरहन्
एवं समुदिता नारी का न्वेवं दुःखभागिनी
नूनं बालतया धातुर्मया चैवाप्रियं कृतम्
तस्य प्रभावाद्दुर्नीतं प्राप्ताऽस्मि भरतर्षभ
वर्णं विकारमपि मे पश्य पाण्डव यादृशम्
ईदृशो मे न तत्रासीद्दुःखे परमके पुरा
त्वं मे भीम न जानीषे ह्यनुभूतं सुखं पुरा
साऽहं दासीत्वमापन्ना न शान्तिं मनसा लभे
तद्दैवादृते मन्ये यत्र पार्थो धनञ्जयः
भीमधन्वा महारङ्गे चास्ते शान्त इवानलः
अशक्या वेदितुं पार्थ प्राणिनां वै गतिर्नरैः
विनिपातमिमं पश्य युष्माकमविचिन्तितम्
यस्या मम मुखप्रेक्षा यूयमिन्द्रसमास्सदा
सा प्रेक्ष्य मुखमन्यासामवराणां वरा सती
पश्य पाण्डव मेऽवस्थां यथा नार्हामि वै तथा
युष्मासु ध्रियमाणेषु पाञ्चालेषु च भारत
यस्यास्सागरपर्यन्ता पृथिवी वशवर्तिनी
आसीत्साऽद्य सुदेष्णायाः पाञ्चाली वशवर्तिनी
यस्याः पुरस्सरा आसन्पृष्ठतश्चानुगामिनः
साहमद्य सुदेष्णायाः पश्चाद्यामि भयार्दिता
इदं हि दुःखं कौन्तेय ममासह्यं निबोध तत्
या न जातु स्वयं पिङ्क्षे गात्रोन्मर्दनमात्मनः
अन्यत्र कुन्त्या भद्रं ते सा पिङ्क्षामि चन्दनम्
वैशम्पायनः-
पश्य कौन्तेय मे पाणी नैवं वै भवतः पुरा
इत्यस्मै दर्शयामास किणबद्धौ करावुभौ
द्रौपदी-
बिभेमि कुन्त्या या नाऽहं युष्माकं वा कदाचन
साऽद्याग्रतो विराटस्य भीता तिष्ठामि किङ्करी
किन्नु वक्ष्यति सम्राण्मां वर्णकस्सुकृतो न वा
नान्यपिष्टं विराटस्य चन्दनं किल रोचते
वैशम्पायनः-
सा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी
रुरोद शनकैः कृष्णा भीमस्योरस्समाश्रिता
सा बाष्पकलया वाचा निश्वसन्ती पुनःपुनः
हृदये भीमसेनस्य घटयन्तीदमब्रवीत्
द्रौपदी-
नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा
अभाग्या या तु जीवामि मर्तव्ये सति पाण्डव
कीचकं चेन्न हन्यास्त्वं स्वात्मानं नाशयाम्यहम्
विषमालोड्य पास्यामि प्रवेक्ष्याम्यथवाऽनलम्
अभाग्याऽहमपुण्याऽहं नित्यदुःखा च विक्लवा
पापे निपतितायाश्च किं फलं जीवितेन मे
वैशम्पायनः-
ततस्तस्याः करौ पीनौ किणबद्धौ वृकोदरः
मुखमानीय वेपन्त्या रुरोद परवीरहा
तौ गृहीत्वा च कौन्तेयो बाष्पमुत्सृज्य वीर्यवान्
ततः परमदुःखार्त इदं वचनमब्रवीत्