वैशम्पायनः-
अथापरस्यां दिशि भीमविक्रमो वृकोदरोऽदृश्यत भीमरूपः
असिप्रवेशे प्रतिमुच्य शाणके खजं च दर्वीं च करेण धारयन्
त्वचं च गोचर्ममयीं समुक्षितां सुमर्दितां पानकरागषाडवैः
किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम्
गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रभासयन्
सुकृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान्
सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन्
सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः
तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम्
भयात्समुद्विग्नविषण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत्
तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम्
समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परितः प्रसर्पिरे
अथाब्रवीन्मात्स्यपतिस्सभागतान्भृशातुरोष्णं परिनिश्वसन्निव
विराटः-
कोऽयं युवा वारणराजसन्निभस्सभामभिप्रैति हि मामिकां शुभाम्
को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतेर्हि मामकः
व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते
राजश्रिया ह्येष विभाति राजवद्विराजते रुक्मगिरिप्रभोपमः
नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ
रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शक्र इवाभिपालयेत्
नाभूमिपोऽयं हि मतिर्ममेति च च्युतस्समृद्ध्या नभसीव नाहुषः
वैशम्पायनः-
वितर्कमाणस्य च तस्य पाण्डवस्सभामतिक्रम्य वृकोदरोऽब्रवीत्
जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम्
ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम्
भीमः-
त्वां जीवितुं शक्रसमागतोऽस्म्यहं त्वमेव लोके परमो हि संश्रयः
नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत्
वैशम्पायनः-
जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान्
रागप्रकारांश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत्
तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत्
विराटः-
न शूद्रतां काञ्चन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ
हुताशनाविष्कृततुल्यतेजसो न कर्म ते योग्यमिदं महानसे
न सूपकारीभवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम
अनीककर्णाग्रधरो ध्वजी रथी भवार्य मे वारणवाहिनीपतिः
न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि
भीमः-
चतुर्थवर्णोस्म्यहमित्युवाच तं नान्यं वृणे त्वामहमीदृशं पदम्
जात्या हि शूद्रो बललो हि नाम्ना जिजीविषुस्त्वद्विषयं समागतः
युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः
अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम्
त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत्
बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव
गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम्
न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति
वैशम्पायनः-
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि
ये सन्ति मल्ला बलवीर्यसम्मतास्तानेव योत्स्यामि तवाभिहर्षयन्
तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत्
विराटः-
एवं न मन्ये तव कर्म कुत्सितं समुद्रनेमिं पृथिवीं त्वमर्हसि
त्रिलोकपालो हि यथा विराचते तथाऽद्य मे विष्णुरिवाभिरोचसे
यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः
नराश्च मे तत्र मया सदाऽर्चिता भवस्व तेषामधिपो मया कृतः
वैशम्पायनः-
तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः
उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन