वैशम्पायनः-
तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम्
अभिवाद्य ततस्सर्वे प्रस्थातुमुपचक्रमुः
युधिष्ठिरः-
अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन
कुन्तीमृते मातरं नः पितरं च यशस्विनम्
यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति
तारणाय तु दुःखस्य प्रस्थानायाभयस्य च
वैशम्पायनः-
तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत्
सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा
ततः पावकमुज्ज्वाल्य मन्त्रहव्यपुरुस्कृतम्
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः
प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम्
ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः
अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम्
उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु
अन्तरेण यकृल्लोम्नश्शूरसेनांश्च पाण्डवाः
ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः
ततः प्रत्यक्प्रयातास्ते सङ्क्रामन्तो वनाद्वनम्
वसाना वनदुर्गेषु रमणीयेषु धन्विनः
पल्वलेषु च रम्येषु नदीनां सङ्गमेषु च
द्रुमान्नानाविधाकारान्नानाविधलताकुलान्
कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान्
पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः
जिघ्रन्तः पुष्पगन्धांश्च सुसुगन्धान्मनोरमान्
विध्यन्तो मृगजातानि महेष्वासा महाबलाः
उषित्वा द्वादश समा वने परपुरञ्जयाः
वेदं ब्रुवाणा मात्स्यस्य विषयं प्राविशंस्तदा
तत्र धौम्यं महात्मानं पाण्डवेया व्यसर्जयन्
अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत्
द्रौपदी-
पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समावृताः
वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च
व्यक्तं दूरे विराटस्य राजधानी भविष्यति
वसामेहापरां रात्रिं बलवान्मे परिश्रमः
युधिष्ठिरः-
इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन
बाहुभ्यां परिगृह्यैनां मुहूर्तं नकुल व्रज
ततोऽदूरे विराटस्य नगरं भरतर्षभ
राजधान्यां निवत्स्यामस्सुमुक्तमिव नो वनम्
नकुलः-
पूर्वाह्णे मृगयां गत्वा वने विद्धा मृगा वने
अटवी च मया दूरं सृता मृगवधेप्सुना
विषमा ह्यतिदुर्गा च वेगवत्परिधावता
सोऽहं घर्माभितप्तो वै नैनामादातुमुत्सहे
युधिष्ठिरः-
सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय
राजधान्यां निवत्स्यामस्सुमुक्तमिव नो वनम्
सहदेवः-
अहमप्यस्मि तृषितः क्षुधया परिपीडितः
परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे
युधिष्ठिरः-
एहि वीर विशालाक्ष वीरसिंह इवार्जुन
इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम्
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज
राजधान्यां निवत्स्यामस्सुमुक्तमिव नो वनम्
वैशम्पायनः-
गुरोर्वचनमाज्ञाय सम्प्रहृष्टो धनञ्जयः
तामादायार्जुनः पार्थो द्रौपदीं हस्तिराढिव
प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनः
जटिलो वल्कलधरश्शरतूणीधनुर्धरः
स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम्
आनीय नगराभ्याशमवातारयदर्जुनः
स राजधानीं सम्प्राप्य पार्थिवोऽर्जुनमब्रवीत्
युधिष्ठिरः-
इमानि पुरुषव्याघ्र आयुधानि परन्तप
कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत्
सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि
समुद्वेगं जनस्यास्य करिष्यामो न संशयः
गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम्
कथं नाविष्कृतास्स्यामो धार्तराष्ट्रस्य मारिष
यदीदं धनुरादाय चरेम सजने पुरे
क्षिप्रं नः प्रतिजानीयुर्मनुष्या नात्र संशयः
एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च
भूयो द्वादशवर्षाणि प्रविशेम वनं वयम्
तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा
प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत्
वैशम्पायनः-
अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः
उवाच धर्मपुत्रं तमर्जुनः परवीरहा
अर्जुनः-
इयं वने मनुष्येन्द्र महती दृश्यते शमी
भीमशाखा दुरारोहा श्मशानस्य समीपतः
उत्पथे चापि जातेयममनुष्यनिषेवेते
न चास्यां सञ्चरिष्यन्ति मनुष्याः पार्थ केचन
धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम्
उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम्
अस्यामायुधमासज्य गच्छाम नगरं वयम्
एवं परिहरिष्यन्ति मनुष्या वनचारिणः
एवमत्र यथाजोषं विहराम यथासुखम्
अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम्
वैशम्पायनः-
एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः
प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ
तानि सर्वाणि सन्नह्य पञ्च पञ्चाचलोपमाः
आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान्
येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान्
निवातकवचांश्चापि पौलोमांश्च परन्तपः
कालकेयांश्च दुर्धर्षान्सर्वांश्चैकरथोऽजयत्
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः
एतदुग्रं महाघोरं सपत्नगणसूदनम्
विजयं समकरोत्पार्थो गाण्डीवमभयङ्करम्
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परन्तपः
जृम्भिते च धनुश्श्रेष्ठे न्यासार्थं नृपसत्तमः
धर्मपुत्रो महातेजास्सर्वलोकवशङ्करम्
भुजङ्गभोगसदृशं मणिकाञ्चनभूषणम्
वित्रासनं दानवानां राक्षसानां च नित्यशः
धनूरत्नं महातेजा जृम्भयामास पाण्डवः
पाञ्चालान्येन सङ्ग्रामे भीमसेनोऽजयत्प्रभुः
प्रत्यषेधद्बहूनेकस्सपत्नांश्चापि दिग्जये
निशम्य यस्य विष्फारं विद्रवन्ति रणे परे
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव
सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत्
येन क्रोधवशाज्जघ्ने राक्षसान्गन्धमादने
दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः
त्रिगर्तान्येन सङ्ग्रामे जित्वा त्रैगर्तमानयत्
इन्द्रायुधसमस्पर्शं वज्रहाटकभूषितम्
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत्
नकुलं पुनराहूय धर्मराजो युधिष्ठिरः
उवाच येन सङ्ग्रामे सर्वाञ्शत्रूञ्जिघांससि
सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम्
सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम्
तवानुरूपं सुदृढं चापमेतदलङ्कृतम्
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः
सुवर्णविकृतिं सारमिन्द्रायुधवरोपमम्
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहरत्
सहदेवं च सम्प्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत्
कलिङ्गानदाक्षिणात्यांश्च मागधांश्चापि दिग्जये
येनैव शत्रून्समरेष्वधाक्षीररिमर्दन
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर
अजयद्दक्षिणामाशां धनुषा येन पाण्डवः
तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहरत्
दीर्घांश्च खण्डान्सुदृढान्निशितान्कनकत्सरून्
विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि
आयुधानि कलापांश्च गदाश्च विपुलास्तदा
तानि सर्वाणि सन्नह्य वासोभिः परिवेष्ट्य च
आरोह यावदेतानि निधातुं विहगैर्वृताम्
शमीमारुह्य महतीं निक्षपाद्यायुधानि नः
स हि धर्मेण धर्मात्मा तथा घोरतरे वने
तान्यायुधान्युपादाय प्रोवाच मधुराक्षरम्
युधिष्ठिरश्शुचिर्भूत्वा मनसाऽभिप्रणम्य च
युधिष्ठिरः-
ब्रह्माणमिन्द्रं वरदं कुबेरं वरुणानिलौ
रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च
पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा
वसूंश्च मरुतश्चैव ज्वलनं चातितेजसम्
दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि
तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेषां शरणं गतोऽहम्
सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै
न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम्
एष न्यासो मया न्यस्तस्सूर्यसोमानिलान्तिके
मह्यं पार्थाय वा देयं पूर्णे वर्षे त्रयोदशे
नेदं भीमाय दातव्यमयं क्रुद्धो वृकोदरः
अमर्षान्नित्यसङ्क्रुद्धो धृतराष्ट्रसुतान्प्रति
अपूर्णकाले प्रहरेत्क्रोधसञ्जातमत्सरः
पुनः प्रवेशो नस्स्यात्तु वनवासाय सर्वदा
समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महि
एष चार्थश्च धर्मश्च कामः कीर्तिः कुलं यशः
ममायत्तमिदं सर्वं जीवितं च न संशयः
वैशम्पायनः-
सोऽवतीर्य महाप्राज्ञः पाण्डवस्सत्यविक्रमः
भीमं कणठे परिष्वज्य चानुनीय नराधिपः
दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम्
नगरं गन्तुमायातास्सर्वे ते भ्रातरस्सह
आगोपालाविपालेभ्यः कर्षकेभ्यः परन्तपाः
आजग्मुर्नगराभ्याशं श्रावयन्तः पुनः पुनः
अशीतिशतवर्षेयं माताऽस्माकमिहान्तिके
हन्त कालपरीणामा मृत्योस्तु वशमेयुषी
न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः
यस्समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया
अचिरात्तस्य मरणं भविष्यति न संशयः
तदैवमूचुस्ते तत्र कुलधर्मो न ईदृशः
अथाब्रवीद्धर्मराजस्सहदेवं परन्तपः
युधिष्ठिरः-
इदं गोमृगमभ्याशे गतसत्त्वमचेतनम्
एतदुत्कृत्य वै वीर धनूंषि परिवेष्टय
वैशम्पायनः-
एवमुक्तो महाबाहुस्सहदेवो यथोक्तवत्
शमीमारुह्य त्वरितो धनूंषि परिवेष्टयन्
शीतवातातपभयाद्वर्षत्राणाय दुर्जयः
तानि वीरो यथा वक्रे निरासाद्यानि सर्वशः
पुनःपुनस्स सम्प्रेक्ष्य कृत्वा सुदृढमग्रतः
अथापरमदूरस्थमुञ्छवृत्ति कलेबरम्
प्रायोपवेशाद्च्छुष्कं स्नायुचर्मास्थिसंयुतम्
तच्चानीय धनुर्मध्ये विनिबद्ध्य च पाणडवाः
उपायकुशलास्सर्वे सप्रहासमथाब्रुवन्
अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः
दूरात्परिहरिष्यन्ति ससत्त्वेयं शमीति ह
अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः
युधिष्ठिरः-
रज्जुभिस्सुकृतं प्राज्ञ विनिर्बध्नीहि पाण्डव
यानि चात्र विशालानि रूढमूलानि मन्यसे
तेषामुपरि बध्नीहि इदं विप्रकलेबरम्
वैशम्पायनः-
विश्रावयन्तस्ते सर्वे दिशस्सर्वा व्यनादयन्
स्वर्गतेयमिहास्माकं जननी शोकविह्वला
वने विचरमाणानां लुब्धानां वनचारिणाम्
कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा
एवं ते समयं कृत्वा समन्तादवघुष्य च
भीमसेनार्जुनौ चैव माद्रीपुत्रावुभावपि
युधिष्ठिरश्च कृष्णा च राजपुत्री सुमध्यमा
ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा
मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा
अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम्
अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः
जयो जयेशो विजयो जयत्सेनो जयद्बलः