युधिष्ठिरः-
किङ्कर्ता किंसमाचारो नकुलोऽयं भविष्यति
सुकुमारश्च शूरश्च दर्शनीयस्सुखे रतः
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः
सोऽयमार्तश्च शान्तश्च किं नु रोचयिता त्विह
नकुलः-
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः
दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम
दामग्नन्थी परिज्ञाता कुशलो दामकर्मणि
कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते
प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव
न मां परिहरिष्यन्ति किशोरा वडवास्तथा
न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः
प्रेक्ष्यन्ते ये च मां केचिद्विराटनगरे जनाः
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं सुखम्
वैशम्पायनः-
नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः
युधिष्ठिरः-
बृहस्पतिसमो बुद्ध्या नये चोशनसा समः
मन्त्रैर्नानाविधैर्नीतः पथ्यैस्सुपरिनिष्ठितः
सुप्रणीतैस्सुमार्गस्थो राजतन्त्रमपालयत्
न चास्य स्खलितं किञ्चिद्ददृशुस्तद्विदो जनाः
सुनीतिमान्सुशूरश्च सर्वमन्त्रविशारदः
अधिको मातुरस्माकं कुन्त्याः प्रियतरस्सदा
सहदेव कथं कर्म तस्य राष्ट्रे करिष्यसि
सहदेवः-
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि
गोसङ्ख्याता भविष्यामि विराटस्येति रोचये
प्रतिमोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम्
तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति
अरोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः
निष्पन्नसत्त्वास्सुभृता ह्यपेतज्वरकिल्बिषाः
नष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः
गावश्च सुसुखा राजन्निरुद्विग्ना निरामयाः
भविष्यन्ति मया गुप्ता विराटनगरे तदा
निपुणश्च चरिष्यामि प्रीतिरत्र परा हि मे
अहं हि भवतो गोषु प्रहितस्सततं पुरा
तत्र मे कौशलं सर्वमनुबद्धं विशाम्पते
रक्षणं चरितं चैव गवां मङ्गललक्षणम्
तत्सर्वं मे सुविदितमन्यच्चापि विशाम्पते
ऋषभानपि जानामि राजन्पूजितलक्षणान्
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते
सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव
युधिष्ठिरः-
केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति
न हि किञ्चन जानाति कर्म कर्तुं यथा स्त्रियः
माल्यान्गन्धानलङ्कारान्वस्त्राणि विविधानि च
एतान्येवाभिजानाति यथाजाता च भामिनी
इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी
मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च
सुकुमारी सुशीला च राजपुत्री यशस्विनी
कथं वत्स्यति कल्याणी विराटनगरे सती
द्रौपदी-
अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव
यथा ते मत्कृते शोको न भवेन्नृप तच्छृणु
यथा तु मान्न जानन्ति तत्करिष्याम्यहं विभो
छन्ना वत्स्याम्यहं यन्मां न विज्ञास्यन्ति केचन
वृत्तं तच्च समाख्यास्ये शमाप्रुहि विशाम्पते
सैरन्ध्रीजातिसम्पन्ना नाम्नाऽहं व्रतचारिणी
सैरन्ध्र्यो रक्षितास्स्त्रीणाम् भुजिष्यास्सन्ति भारत
एकपत्न्यस्स्त्रियश्चैता इति लोकस्य निश्चयः
साऽहम् ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि
नाहं तव भविष्यामि दुर्भरा राजवेश्मनि
कृता चैव सदा रक्षा व्रतेनैव नराधिप
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम्
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम्
अनुगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि
युधिष्ठिरः-
कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा
न पापमनवद्याङ्गी भाषसे चारुहासिनी