वैशम्पायनः-
निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः
अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः
युधिष्ठिरः-
अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः
भ्रातॄन्कृष्णां च सम्प्रेक्ष्य धौम्यं च कुरुनन्दनः
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम्
त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन
अबुद्धा धार्तराष्ट्रैश्च समग्रास्सह कृष्णया
अर्जुनः-
तस्यैव वरदानेन धर्मस्य मनुजाधिप
अज्ञाता विचरिष्यामो नराणां भरतर्षभ
यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित्
रमणीयानि गुप्तानि तेषां किञ्चित्तु रोचय
रम्याश्च सुखदास्सन्ति बहवस्त्वभितः कुरून्
पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः
दशार्णाश्शूरसेनाश्च कलिङ्गा मागधा अपि
विराटनगरं चापि श्रूयते शत्रुकर्शन
रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च
नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहून्यपि
यत्र ते रोचते राजंस्तत्र गच्छामहे वयम्
कतमस्मिञ्जनपदे महाराज निवत्स्यसि
युधिष्ठिरः-
एवमेतन्महाबाहो यथा स भगवान्प्रभुः
अब्रवीत्सर्वभूतेशस्तथैतन्नैतदन्यथा
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्
सम्मन्त्र्य सहितैस्सर्वैर्द्रष्टव्यमकुतोभयम्
मात्स्यो विराटो बलवान्सार्वभौमश्च विश्रुतः
दानशीलो वदान्यश्च वृद्धस्सत्सु सुसम्मतः
गुणवाल्ँलोकविख्यातो दृढभक्तिर्विशारदः
तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ
विराटनगरे तात मासान्द्वादशसंश्रिताः
कुर्वन्तस्तस्य कर्माणि वसामेति ह रोचये
यानि यानीह कर्माणि तस्य शक्ष्यामहे वयम्
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन
अर्जुनः-
नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि
मनुषेन्द्र विराटस्य रंस्यसे केन कर्मणा
अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः
न तवाभ्युचितं कर्म नृशंसं नापि कैतवम्
सत्यवागसि याज्ञीयो रागक्रोधविवर्जितः
मृदुर्वदान्यो ह्रीमांश्च धार्मिकस्सत्यविक्रमः
स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि
न दुःखमुचितं किञ्चिद्राज्यं पापमतेर्यथा
वैशम्पायनः-
स इमामापदं प्राप्य कथं घोरां तरिष्यसि
अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः
युधिष्ठिरः-
शृणु त्वं यत्करिष्यामि अहं वै कुरुनन्दन
विराटं समनुप्राप्य राजानं मात्स्यनन्दनम्
सभास्तारो भविष्यामि विराटस्येति मे मतिः
कङ्को नाम ब्रुवाणोऽहं मताक्षस्साधुदेविता
वैडूर्यान्काञ्चनान्दान्तान्स्फाटिकान्राजतानपि
कृष्णाक्षाल्ँलोहिताक्षांश्च निवप्स्यामि मनोरमान्
अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः
लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे
दर्शनीयास्सभानन्दाः कुशलैस्साधु निष्ठिताः
अप्येतान्पाणिना स्पृष्ट्वा सम्प्रहृष्यन्ति मानवाः
तान्विकीर्य समे देशे रमणीये विपांसुले
देविष्यामि यथाकामं स विहारो भविष्यति
कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः
ज्यौतिषे शकुनज्ञाने निमित्ते चाक्षकौशले
ब्राह्मो वेदो मयाऽधीतो वेदाङ्गानि च सर्वशः
धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः
पृष्टोऽहं कथयिष्यामि राज्ञः प्रियहितं वचः
आसं युधिष्ठिरस्याहं पुरा प्राणसमस्सखा
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते
विराटनगरे छन्न एवं युक्तस्सदा वसे
इत्येवं मत्प्रतिज्ञातं विचरिष्याम्यहं यथा