जनमेजयः-
कथं विराटनगरे मम पूर्वपितामहाः
अज्ञातवासमुषिता दुर्योधनभयार्दिताः
पतिव्रता महाभागा सततं धर्मचारिणी
द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखमावसत्
वैशम्पायनः-
तथा सर्वान्वराँल्लब्ध्वा धर्मराजो युधिष्ठिरः
गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः
अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत्
ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः
समाहूयानुजान्सर्वानिति होवाच भारत
युधिष्ठिरः-
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम्
छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः
उषिताश्च वने कृच्छ्रं यथा द्वादश वत्सरान्
अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम्
वैशम्पायनः-
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवास्संशितव्रताः
अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम्
उपोपविश्य विद्वांसस्स्नातकास्संशितव्रताः
ये तु भक्ता वसन्ति स्म वनवासे तपस्विनः
तानब्रुवन्महात्मानश्शिष्टाः प्राञ्जलयस्तदा
अभ्यनुज्ञापयिष्यन्तस्तं विवासं धृतव्रताः
युधिष्ठिरः-
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम्
छद्मना हृतराज्याश्च निस्स्वाश्च बहुशः कृताः
उषिताश्च वने वासं यथा द्वादश वत्सरान्
भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः
अज्ञातवाससमये शेषं वर्षं त्रयोदशम्
तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः
जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः
युक्तचाराश्च यत्ताश्च क्षये त्वस्य जनस्य च
दुरात्मनां हि कस्तेषां प्राज्ञो वै विश्वसेद्भुवि
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैस्सह
समस्तेष्वेव राष्ट्रेषु स्वराज्यं स्थापयेमहि
वैशम्पायनः-
इत्युक्त्वा दुःखमोहार्तश्शुचिर्धर्मसुतस्तदा
सम्मूर्च्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः
तस्मिन्सम्मूर्च्छिते भूरि भ्रातरश्चास्य सर्वशः
शोकमापेदिरे तत्र दृष्ट्वा राजानमातुरम्
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा
धौम्यः-
राजन्विद्वान्भवान्दान्तस्सत्यसन्धो जितेन्द्रियः
नैवंविधाः प्रमुह्यन्ति धीराः कस्याञ्चिदापदि
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा
तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः
इन्द्रेण निषधं प्राप्य गिरिप्रस्थाश्रमे तदा
छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे
दितिपुत्रैर्हृते राज्ये देवराजोऽपि दुःखितः
ब्राह्मणं तोषयिषटंश्च ब्रह्मरूपं विधाय च
प्रसादाद्ब्रह्मणो राजन्दितेः पुत्रान्महाबलान्
विजित्य तरसा शत्रून्पुनर्लोकानवाप ह
विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता
गर्भे वधाय दैत्यानामज्ञातं चोषितं चिरम्
प्रोष्य वामनरूपेण प्रच्छन्नब्रह्मचारिणा
बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम्
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा
यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया
प्रच्छन्नं वाऽपि धर्मज्ञा हरिणा वृत्रनिग्रहे
वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम्
हुताशनेन यच्चापः प्रविश्य च्छन्नमासता
विबुधानां हितं कर्म कृतं तच्चापि ते श्रुतम्
तथा विवस्वता तात छन्नेनोत्तमतेजसा
निर्दग्धाः रिपवस्सर्वे वसता गवि वर्षशः
विष्णुना वसता चापि गृहे दशरथस्य च
दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा
एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र ह
अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि
वैशम्पायनः-
इति धौम्येन धर्मज्ञो वाक्यैस्सम्परिहर्षितः
शास्त्रबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः
राजानं बलिनां श्रेष्ठो गिरा सम्परिहर्षयन्
भीमः-
अवेक्षय महाराज तव गाण्डीवधन्वना
धर्मानुगतया बुद्ध्या न किञ्चित्साहसं कृतम्
सहदेवो मया नित्यं नकुलश्च निवारितः
शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ
न वयं न हनिष्यामो यस्मिन्योक्ष्यति नो भवान्
वैशम्पायनः-
इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः
तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान्
सुखोपविष्टो विद्वद्भिस्तापसैस्संशितव्रतैः
ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः
तानब्रवीन्महाप्राज्ञश्शिष्टान्राजा कृताञ्जलिः
युधिष्ठिरः-
विदितं भवतां सर्वं र्धार्तराष्ट्रैर्यथा वयम्
धद्मना हृतराज्याश्च निस्स्वाश्च बहुशः कृताः
उषितास्स्मो वने कृच्छ्रे यत्नाद्द्वादश वत्सरान्
अज्ञातचर्यां समये शेषं वर्षं त्रयोदशम्
तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञापयामहे
वैशम्पायनः-
इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः
प्रयुज्यापृच्छ्य भरतान्यथास्वान्प्रययुर्गृहान्
सर्वे वेदविदो विप्रा यतयो मुनयस्तदा
आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः
ते तद्भृत्याश्च दूताश्च शिल्पिनः परिचारकाः
अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः
उत्थाय प्रययुर्वीराः कृष्णामादाय भारत
क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः
श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः
पृथक् शास्त्रविदस्सर्वे सर्वे मन्त्रविशारदाः
सन्धिविग्रहकालज्ञा मन्त्राय समुपाविशन्