वैशम्पायनः-
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः
क्षुत्पिपासे च सर्वेषां तत्क्षणादेव हन्यते
युधिष्ठिरः-
सरस्येकेन पादेन तिष्ठंस्त्वामपराजितम्
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान्
मम हि भ्रातर इमे सहस्रशतयोधिनः
अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः
न तं योधान्प्रपश्यामि येन स्युर्विनिपातिताः
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये
स भवान्सुहृदस्माकमथवा नः पिता भवान्
यक्षः-
अहं ते जनकस्तात धर्मो मृदुपराक्रम
त्वां दिदृक्षुरनुप्राप्तो तद्विद्धि भरतर्षभ
यशस्सत्यं दमश्शौचमार्जवं ह्रीरचापलम्
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम
अहिंसा समता क्षान्तिस्तपश्शौचममत्सरः
दारानेतान्हि मे विद्धि प्रियो ह्यसि सतो मम
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता
द्वे पूर्वे मध्यमे वोभे द्वे चान्ते साम्परायिके
अहं प्रीतोऽस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः
युधिष्ठिरः-
अरणी तु हृता यस्य मृगोप वदतां वर
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम
धर्मः-
अरणीसहितं तस्य ब्राह्मणस्य हृतं मया
मृगवेषेण कौन्तेय जिज्ञासार्थं तवानघ
वैशम्पायनः-
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत
अन्यं वरय भद्रं ते वरं त्वममरोपम
युधिष्ठिरः-
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम्
तत्र ते न विजानीयुर्वसतो मनुजाः क्वचित्
वैशम्पायनः-
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत
भूयश्चापि हि कौन्तेयमवदत्सत्यविक्रमम्
यक्षः-
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम्
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत
वर्षं त्रयोदशं चैव मत्प्रसादात्कुरूद्वहाः
विराटनगरे गूढा अज्ञाता विचरिष्यथ
यद्वा सङ्कल्पितं रूपं मनसा यस्य चैव हि
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ
अरणीसहितं भाण्डं ब्राह्मणाय प्रयच्छत
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा
त्वदीयं च गृह्यतां त्वं वरं मत्प्रभवं महत्
त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक्
युधिष्ठिरः-
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः
यं यं वरं ददौ हृष्टस्तं ग्रहीष्याम्यहं पितुः
जयेयं लोभमोहौ च क्रोधं चैव सदा विभो
दाने तपसि सत्ये च मनो मे सततं भवेत्
यमः-
उपपन्नो गुणैस्सर्वैस्स्वभावेनासि पाण्डव
भवान्धर्मपुनश्चैको यथोक्तं ते भविष्यति
वैशम्पायनः-
इत्युक्त्वान्तर्दधे धर्मो भगवाल्ँलोकभावनः
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने
इदं समुत्थानसमागमं महत्पितुश्च पुत्रस्य च कीर्तिवर्धनम्
पठन्नरस्स्याद्विजितेन्द्रियो वशी सपुत्रपौत्रश्शतवर्षभाग्भवेत्
न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने
अकार्यभावे न रमेन्मनस्सदा नृणां वराख्यानवरं च श्रृण्वनताम्