वैशम्पायनः-
स ददर्श हतान्भ्रातॄल्ँलोकपालानिव च्युतान्
युगान्ते समनुप्राप्ते शक्रवैश्रवणोपमान्
विप्रकीर्ण धनुर्बाणं दृष्ट्वा निहतमर्जुनम्
भीमसेनं यमौ चोभौ निर्विचेष्टान्व्यसूंस्तदा
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः
स्वबुद्ध्या चिन्तयामास वीराः केन निपातिताः
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित्
भूतं महदिदं मन्ये भ्रातरो येन मे हताः
एकान्ते चिन्तयिष्यामि पीत्वा वेत्स्यामि वाऽप्यपः
भ्रातॄणां व्यसनं घोरं सममेव महात्मनाम्
स्यात्तु दुर्योधनेनेदमुपांशु परिकल्पितम्
गान्धारराजेन कृतं असता धर्मबुद्धिना
यस्य कार्यमकार्यं वा सममेव भवत्युत
कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः
अथवा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः
भवेदिति महाबाहुर्बहुधा समचिन्तयत्
आचार्यं किं नु वक्ष्यामि द्रोणं भीष्मं कृपं नु किम्
विदुरं किं नु वक्ष्यामि बृहस्पतिसमं नये
अम्बां च किं नु वक्ष्यामि सर्वदा दुःखभागिनीम्
दृष्ट्वा मां भ्रातृभिर्हीनं पृच्छन्तीं पुत्रगृद्धिनीम्
यदा त्वं भ्रातृभिस्सर्वैश्शक्रतुल्यपराक्रमैः
सार्धं वनं गतो वीरैः कथमेकत्स्त्वमागतः
कस्य किं नु विषेणेदमुदकं दूषितं यथा
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत्
एकैकशो बलवत इमान्पुरुषसत्तमान्
कोऽन्यः प्रतिसमासेत कालान्तकयमान्विना
एतेन व्यवसायेन तत्तोयमवगाढवान्
पातुकामश्च तत्तोयमन्तरिक्षात्स पशुश्रुवे
यक्षः-
अहं बकश्शैवलमत्स्यभक्षो नीता मया प्रेतवशं तवानुजाः
त्वं पञ्चमो भविता राजपुत्र न चेत्प्रश्नान्पृच्छतो व्याकरोषि
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः
प्रश्नानुक्त्वा यथाकामं पिबस्व च हरस्व च
युधिष्ठिरः-
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक्
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम्
हिमवान्पारियात्रश्च विन्ध्यो मलय एव च
चत्वारः पर्वताः केन पातिता भुवि तेजसा
त्ययाऽतीव महत्कर्म कृतं बलवतां वर
विनिघ्नता महेष्वासांश्चतुरोऽपि ममानुजान्
यन्न देवा न गन्धर्वा नासुराश्च न राक्षसाः
न समर्था महायुद्धे कृतं त्वत्तेजसाद्भुतम्
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम्
कौतूहलं महज्जातं साध्वसं च गतं मम
त्वयेत्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः
पृच्छामि तस्माद्भगवान्को भवानिह तिष्ठति
यक्षः-
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः
मयैते निहतास्सर्वे भ्रातरस्ते पिपासिताः
वैशम्पायनः-
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम्
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदाऽऽस्थितः
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम्
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम्
सेतुमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः
घोराकृतिं महाराजं तर्जयन्तं महाबलम्
उवाच यक्षः कौन्तेयं भारातृशोकप्रपीडितम्
यक्षः-
इमे ते भ्रातरो राजन्वार्यमाणा मयाऽसकृत्
बलात्तोयं जिहीर्षन्तो मया वै सूदितास्तदा
न पेयमुदकं राजन्प्राणानिह परीप्सता
मा पार्थ साहसं कार्षीर्मम पूर्वपरिग्रहः
युधिष्ठिरः-
प्रश्नानुक्त्वा तु राजेन्द्र ततः पिब हरस्व च
नैवाहं कामये यक्ष तव पूर्वपरिग्रहम्
अन्ये नैतत्प्रशंसन्ति सन्तो हि पुरुषास्सदा
यदात्मना स्वमात्मानं प्रशंसेत्पुरुषः प्रभो
यथाप्रश्नं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम्
यक्षः-
किंस्विदादित्यमुन्नयति के च तस्याभितश्चराः
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति
युधिष्ठिरः-
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः
धर्मश्चास्तं नयति सत्ये च प्रतितिष्ठति
यक्षः-
केन स्विच्छ्रोत्रियो भवति केन स्विद्विन्दते महत्
केन द्वितीयवान्भवति राजन्केन च बुद्धिमान्
युधिष्ठिरः-
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत्
धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया
यक्षः-
किं ब्राह्मणानां देवत्वं कश्च धर्मस्सतामिव
कश्चैषां मानुषो भावः किमेषामसतामिव
युधिष्ठिरः-
स्वाध्याय एषां देवत्वं तप एषां सतामिव
मरणं मानुषो भावः परिवादोऽसतामिव
यक्षः-
किं क्षत्रियाणां देवत्वं कश्च धर्मस्सतामिव
कश्चैषां मानुषो भावः किमेषामसतामिव
युधिष्ठिरः-
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव
भयं वै मानुषो भावः परित्यागोऽसतामिव
यक्षः-
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः
का चैषां वृश्चते यज्ञं कां यज्ञो नातिवर्तते
युधिष्ठिरः-
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः
वागेका वृश्चते यज्ञं तां यज्ञो नातिवर्तते
यक्षः-
किंस्विदापततां श्रेष्ठं किंस्विन्निपततां वरम्
किंस्वित्प्रतिष्ठमानानां किंस्वित्प्रवदतां वरम्
युधिष्ठिरः-
वर्षमापततां श्रेष्ठं बीजं निपततां वरम्
गावः प्रतिष्ठमानानां पुत्रः प्रवदतां वरः
यक्षः-
इन्द्रियार्थाननुभवन्बुद्धिमाल्ँलोकपूजितः
निन्दितस्सर्वभूतानामुच्छ्वसन्को न जीवति
युधिष्ठिरः-
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति
यक्षः-
किंस्विद्गुरुतरं भूमेः किं स्विदुच्चतरं च खात्
किंस्विच्छीघ्रतरं वायोः किं स्विद्बहुतरं नृणाम्
युधिष्ठिरः-
माता गुरुतरा भूमेः पिता उच्चतरश्च खात्
मनश्शीघ्रतरं वायोश्चिन्ता बहुतरी नृणाम्
यक्षः-
किंस्वित्सुप्तो न निमिषत्किंस्विज्जातं न चोङ्गते
कस्यस्विद्धृदयं नास्ति का च वेगेन वर्धते
युधिष्ठिरः-
मत्स्यस्सुप्तो न निमिषत्यण्डं जातं न चेङ्गते
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते
यक्षः-
किंस्वित्प्रवसतो मित्रं किं स्विन्मित्रं गृहे सतः
आतुरस्य तु किं मित्रं किंस्विन्मित्रं मरिष्यतः
युधिष्ठिरः-
विद्या प्रवसतो मित्रं भार्या मित्रं गृहे सतः
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः
यक्षः-
किंस्विदेको विचरति जातः को जायते पुनः
हिमस्य भेषजं किंस्विदावपनं महत्
युधिष्ठिरः-
सूर्य एको विचरति चन्द्रमा जायते पुनः
अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत्
यक्षः-
किंस्विदेकपदं धर्म्यं किं स्विदेकपदं यशः
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम्
युधिष्ठिरः-
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम्
यक्षः-
किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतस्सखा
अस्योपजीवनं किंस्वित्किंस्विदस्य परायणम्
युधिष्ठिरः-
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतस्सखा
उपजीवनं तु पर्जन्यो दानमस्य परायणम्
यक्षः-
धन्यानामुत्तमं किंस्विद्धनानां किंस्विदुत्तमम्
लाभानामुत्तमं किंस्वित्किं सुखानां तथोत्तमम्
युधिष्ठिरः-
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम्
लाभानां श्रेष्ठमारोग्यं सुखानां तुष्टिरुत्तमा
यक्षः-
किंस्विद्धर्मात्परं लोके कश्च धर्मस्सदाफलः
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते
युधिष्ठिरः-
आनृशंस्यं परो धर्मस्त्रयीधर्मस्सदाफलः
मनो यम्य न शोचन्ति सद्भिस्सन्धिर्न जीर्यते
यक्षः-
किं नु हित्वा प्रियो भवति किन्नु हित्वा न शोचति
किं नु हित्वार्थवान्भवति किं नु हित्वा सुखी भवेत्
युधिष्ठिरः-
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति
कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत्
यक्षः-
किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु
युधिष्ठिरः-
धर्मार्थ ब्राह्मणे दानं यशोऽर्थं नटनर्तके
सङ्ग्रामार्थं च भृत्येषु भयार्थं चैव राजसु
यक्षः-
केन स्विदावृतो लोकः केन स्विन्न प्रकाशते
केन त्यजति मित्राणि केन स्वर्गं न गच्छति
युधीष्ठिरः-
अज्ञानेनावृतो लोकस्तमसा न प्रकाशते
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति
यक्षः-
कथं मृतस्स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत्
श्राद्धं मृतं कथं च स्यात्कथं यज्ञो मृतो भवेत्
युधिष्ठिरः-
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम्
मृतमश्रोत्रिये श्राद्धं मृतो यज्ञस्त्वदक्षिणः
यक्षः-
का दिक्किमुदकं प्रोक्तं किमन्नं किं च वै विषम्
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च
युधिष्ठिरः-
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम्
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे
यक्षः-
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप
पुरुषं त्विदानीं व्याख्याहि यश्च सर्वधनीश्वरः
युधिष्ठिरः-
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणा
यावत्स शब्दो भवति तावत्पुरुष उच्यते
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च
अतीतानागते चोभे स वै पुरुष उच्यते
भूतभव्यभविष्यषु निस्स्पृहश्शान्तमानसः
सुप्रसन्नस्सदा योगी स वै सर्वधनीश्वरः
यक्षः-
व्याख्यातः पुरुषो राजन्यश्च सर्वधनीश्वरः
तस्मात्तवैको भ्रातॄणां यमिच्छसि स जीवतु
युधिष्ठिरः-
श्यामो य एष रक्ताक्षस्सालस्कन्ध इवोद्गतः
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु
यक्षः-
प्रियस्ते भीमसेनोऽयमर्जुनश्च परायणम्
त्वं कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम्
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि
तथैव मनुजाः प्राहुर्भीमसेनं प्रियं तव
अथैकेनानुभावेन सापत्नं जीवमिच्छसि
यस्य बाहुबलं सर्वे पाण्डवास्समुपाश्रिताः
तमर्जुनं कथं त्यक्त्वा नकुलं जीवमिच्छसि
युधिष्ठिरः-
कुन्ती चैव तु माद्री च पाण्डिर्भार्ये उभे अपि
माद्र्यास्तु नकुलो जीवेत्कुन्त्या जीवामि चाप्यहम्
आनृशंस्यं परं धर्मः परमार्थं च्च मे प्रियम्
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु
धर्मशीलस्सदाचार इति मां मानवा विदुः
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु
यक्षः-
यस्मात्ते पार्थ धर्माच्च आनृशंस्यं परं मतम्
तस्मात्ते भ्रातरस्सर्वे जीवन्तु भरतर्षभ