जनमेजयः-
एवं हृतायां भार्यायां प्राप्य क्लेशमनुत्तमम्
प्रतिलभ्य पुनस्तां च किमकुर्वत पाण्डवाः
वैशम्पायनः-
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः
स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति
अनुभुक्तफलाहारास्सर्व एव मिताशनाः
न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः
भीमसेनार्जुनौ चैव माद्रीपुत्रौ च भ्रातरौ
ब्राह्मणार्थे पराक्रान्ता महात्मानो यतव्रताः
क्लेशमाच्छन्ति विपुलं सुखोदर्कं परन्तपाः
तेषां च वसतां तत्र पाण्डवानां महारथम्
अजातशत्रुमासीनं भ्रातृभिस्सहितं वने
आगम्य ब्राह्मणस्तूर्णं सन्तप्त इदमब्रवीत्
ब्राह्मणः-
अरणीसहितं भाण्डं समासक्तं वनस्पतौ
मृगस्य घर्षमाणस्य विषाणे समसज्जत
तदादाय गतो राजंस्त्वरमाणो महामृगः
आश्रमात्त्वरितश्शीघ्रं प्लवमानो महाजवः
तस्य गत्वाऽऽश्रमं शीघ्रमासाद्य च महामृगम्
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः
वैशम्पायनः-
ब्राह्मणस्य वचश्श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः
धनुरादाय कौरव्यः प्राद्रवद्भ्रातृभिस्सह
सन्नद्धास्त्वरितास्सर्वे प्राद्रवन्नरपुङ्गवाः
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम्
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात्
तेषां प्रयतमानानां नादृश्यत वने मृगः
अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः
शीतलच्छायमासाद्य न्यग्रोधं गहने वने
ते क्षुत्पिपासापरीताङ्गाः पाण्डवास्समुपाविशन्
तेषां समुपविष्टानां दुःखितो मकुलस्तदा
अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम
नकुलः-
नास्मिन्कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव
अनुत्तरास्सर्वभूतेषु भूपः ते प्राप्तस्संशयं केन राजन्