वैशम्पायनः-
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा
सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ
तस्य भार्याऽभवद्राजन्रूपेणासदृशी भुवि
राधा नाम महाभागा न सा पुत्रमविन्दत
अपत्यार्थे परं यत्नमकरोद्धि विशेषतः
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया
दत्तरक्षाम्प्रतिसरामन्वालभनशोभिताम्
ऊर्मीतरङ्गैर्जाह्नव्यास्समानीतामुपान्तिकम्
विवर्तमानां बहुशः पुनः पुनरितस्ततः
ततस्सा वायुना राजन्स्रोतसा च बलीयसा
उपानीतो यतस्सूतस्सभार्यो जलमाश्रितः
सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी
ततो निवेदयामास सूतस्याधिरथस्य वै
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्
यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम्
तरुणादित्यसङ्काशं हेमवर्मधरं तथा
मृष्टकुण्डलयुक्तेन वदनेन विराजितम्
परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम्
स तु तं परया लक्ष्म्या दृष्ट्वा युक्तमथात्मजम्
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः
अङ्कमारोप्य तं पुत्रं भार्यां वचनमब्रवीत्
सूतः-
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि
दृष्टवान्देवगर्भोऽयं मन्येऽस्माकमुपागतः
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम
वैशम्पायनः-
इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते
प्रतिजग्राह सा चापि विधिवद्दिव्यरूपिणम्
पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम्
स्तयं समस्रवच्चास्य दैवादित्य निश्चयः
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्
ततः प्रभृति चाप्यन्ये प्राभवन्नौरसास्सुताः
नामकर्म च चक्रुस्ते कुण्डले तस्य दृश्यते
कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम्
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्
नामाऽस्य वसुषेणेति ततश्चक्रुर्द्विजातयः
एवं स सूतपुत्रत्वं जगामामितविक्रमः
वसुषेण इति ख्यातो वृष इत्येव च प्रभुः
स ज्येष्ठपुत्रस्सूतस्य ववृधेऽङ्गेषु वीर्यवान्
चारेण विदितश्चासीत्पृथाया दिव्यधृक्ततः
सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः
दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम्
तत्रैव सदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि
सख्यं दुर्योधनेनैवमगच्छत्सह वीर्यवान्
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्
लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः
सन्धाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः
योद्धुमाशंसते नित्यं अर्जुनेन महात्मना
अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्
अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः
यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम्
उपतिष्ठति मध्याह्ने प्राञ्जलिस्सलिलोत्थितः
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः
नादेयं तस्य तत्काले किञ्चिदसीद्द्विजातिषु
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः
स्वागतं चेति राधेयस्तमथ प्रत्यभाषत