वैशम्पायनः-
ततो गर्भस्समभवत्पृथायाः पृथिवीपते
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे
सा बान्धवभयाद्भीता गर्भं तं विनिगूहती
धारयामास सुश्रोणी न चैनां बुबुधे जनः
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते
कन्यापुरगतां बालां निपुणां परिरक्षणे
ततः कालेन सा गर्भं सुषुवे वरवर्णिनी
कन्यैव तस्य देवस्य प्रसादादमरप्रभम्
तथैवाबद्धकवचं कनकोज्ज्वलकुण्डलम्
हर्यक्षं वृषभस्कन्धं यथा सवितरं तथा
जातमात्रं च तं गर्भं धात्र्या सम्मन्त्र्य भामिनी
उत्स्रष्टुकामा तं गर्भं कारयामास भारत
मञ्जूषां शिल्पिभिस्तूर्णं सुनद्धां सुप्रतिष्ठिताम्
प्लवैर्बहुविधैर्बद्धां प्लवनार्थं जले नृप
अजिनैर्मृदुभिश्चैवं संस्तीर्णशयनां तथा
मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः
मधूच्छिष्टस्थितायान्तमसुख रुदती तथा
श्लक्ष्णायां सुपिधानामपिनद्यामवासृजत्
जानतीं चाप्यकर्तव्यं कन्याया गर्भधारणम्
पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत्
समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले
उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु
कुन्ती-
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयङ्गताश्च ये
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः
आगमाश्च तथा सन्तु दिव्येन विधिना तव
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः
अन्तरिक्षेऽन्तरिक्षस्थः पवनस्सर्वगस्तदा
पिता त्वां पातु सर्वत्र तपनस्तपतां वरः
येन दत्तोऽसि मे पुत्र दिव्येन विधिना त्विह
आदित्या वसवो रुद्रास्साध्या विश्वे च देवताः
मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः
रक्षन्तु त्वां सुरास्सर्वे समेषु विषमेषु च
वेत्स्यामि त्वां विदेशेऽपि कवचेनाभिसूचितम्
धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः
यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम्
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज
कोनु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्
दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम्
पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम्
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति
धन्या द्रक्ष्यन्ति पुत्रस्था भूमौ संसर्पमाणकम्
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम्
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे
हिमवद्वनसम्भूतं सिंहं केसरिणं यथा
वैशम्पायनः-
एवं बहुविधं राजन्विलप्य करुणं पृथा
ससर्ज तां तु मञ्जूषां सा सम्बोधभयात्पितुः
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा
विसर्जयित्वा मञ्जूषां सम्बोधनभयात्पितुः
विवेश राजभवनं पुनश्शोकातुरा ततः
मञ्जूषा त्वश्वनद्यां सा ययौ चर्मण्वतीं नदीम्
चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह
गङ्गायास्सूतविषयं चम्पामभ्याययौ पुरीम्
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः
अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम्
धारयामास तं गर्भं दैवं च विधिनिर्मितम्
एतद्गुह्यं महाराज सूर्यस्यासीन्महात्मनः
स सूर्यसम्भवः कर्णः कुन्त्या गर्भेण धारितः