वैशम्पायनः-
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम्
कुन्ती-
अयं वै कीदृशस्तेन मम दत्तो महात्मना
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव
वैशम्पायनः-
एवं सा चिन्तयन्त्येव ददर्शर्तुं यदृच्छया
व्रीडिता साऽभवत्कन्या बालभावे रजस्वला
अथोद्यन्तं सहस्रांशुं पृथादीप्तं ददर्श ह
न चातप्यत रूपेण भानोस्सन्ध्यागतस्य सा
तस्या दृष्टिरभूद्दिव्या साऽपश्यद्दिव्यदर्शनम्
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम्
तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप
आह्वानमकरोत्साऽथ तस्य देवस्य भामिनी
उपस्पृश्य तदा कुन्ती साऽजुहाव दिवाकरम्
आजगाम ततो राजंस्त्वरमाणो दिवाकरः
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव
योगात्कृत्वा द्विधाऽऽत्मानमाजगाम तताप च
आबभाषे ततः कुन्तीं साम्ना परमवल्गुना
सूर्यः-
आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः
किं करोम्यवशो राज्ञि ब्रूहि किं ते चिकीर्षितम्
कुन्ती-
गम्यतां भगवंस्तत्र यतोऽसि समुपागतः
कौतूहलात्समाहूतः प्रसीद भगवन्निति
सूर्यः-
गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा
तवाभिसन्धिं सुभगे कुर्यां पुत्रो भवेदिति
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि
उत्पत्स्यति हि पुत्रस्ते यथासङ्कल्पमङ्गने
अथ गच्छाम्यहं भद्रे त्वयासङ्गम्य सुस्मिते
शप्स्ये कन्येऽन्यथा क्रुद्धो ब्राह्मणं पितरं च ते
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः
पितरं चैव ते मूढं यो न वेत्ति तवानयम्
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव
शीलवृत्तमविज्ञाय धास्यामि विनयं परम्
एते हि विबुधास्सर्वे पुरन्दरमुखा दिवि
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव मां शुभे
पश्य चैनान्वरारोहेदिव्यं चक्षुरिदं हि ते
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्
वैशम्पायनः-
ततोऽपश्यत्त्रिदशान्राजपुत्री सर्वानेव स्वेषु धिष्ण्येषु खस्थान्
प्रभासन्तं भानुमन्तं महान्तं यथाऽऽदित्यं रोचमानं तथैव
तान्सा दृष्ट्वा व्रीडमानेव बाला सूर्यं देवी वचनं प्राह भीता
कुन्ती-
गच्छ त्वं वै गोपते स्वं विमानं कन्याभावो दुःख एषोपचारः
पिता माता गुरवश्चैव मन्ये देहस्यास्य प्रभवन्ति स्म दाने
साऽहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो
बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो
सूर्यः-
बालेति कृत्वाऽनुनयं तवाहं ददानि नान्यानुनयं लभेत
आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवानेन भवेच्च भीरु
न चापि युक्तं युक्तं हि मया मिथ्याकृतेन वै
इतस्त्वयाऽनवद्याङ्गि लोके समवहास्यताम्
गच्छेयमेव सुश्रोणि गतोऽहं वै निराकृतः
सा त्वं मया सुसङ्गच्छ लप्स्यसे मादृशं सुतम्
सर्वेषां विबुधानां च वक्तव्यस्स्यामहं शुभे
विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि