वैशम्पायनः-
सा तु कन्या महाभागं ब्राह्मणं संशितव्रतम्
तोषयामास शुद्धेन मनसा संशितव्रता
प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः
तत आयाति राजेन्द्र सायं रात्रावथो पुनः
तं च वेलासु सर्वासु भक्ष्यभोज्यप्रतिश्रयैः
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा
अन्नादिसमुदाचारश्शय्यासनकृतस्तथा
दिवसे दिवसे तस्य वर्धते न तु हीयते
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तथा
व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः
दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत्
कृतमित्येव तत्सर्वं यथा तस्मै न्यवेदयत्
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा
प्रीतिमुत्पादयामास धन्या यत्नैरनिन्दिता
तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः
अवधानेन भूयोऽस्याः परं यत्नमथाकरोत्
तां प्रभाते च सायेऽपि पिता पप्रच्छ भारत
पिता-
वैशम्पायनः-
अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया
तं वा परममित्येव प्रत्युवाच यशस्विनी
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः
ततस्संवत्सरे पूर्णे यदाऽसौ जपतां वरः
नापश्यद्दुष्कृतं किञ्चित्पृथायास्सौहृदे रतः
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्
ब्राह्मणः-
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे
वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह
यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि
कुन्ती-
कृतानि मम सर्वाणि यस्यान्मे वेदवित्तम
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम
ब्राह्मणः-
यदि नेच्छसि भद्रे ते वरं मत्तश्शुचिस्मिते
इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम्
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति
अकामो वा सकामो वा न समेष्यति ते वशम्
विबुधो मन्त्रसम्भ्रान्तो वाक्यैर्भृत्य इवानुतः
वैशम्पायनः-
न शशाक द्विजातिं सा प्रत्याख्यातुमनिन्दिता
तं वै द्विजातिप्रवरं तदा शापभयान्नृप
ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः
मन्त्रग्रामं तदा राजन्नथर्वशिरसि स्थितम्
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह
उषितोऽस्मि सुखं राजन्कन्यया परितोषितः
तव गेहे सुविहितस्सदा सुप्रतिपूजितः
साधयिष्यामहे तावदित्युक्त्वाऽन्तरधीयत
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा
बभूव विस्मयाविष्टः पृथां चेमामपूजयत्