कुन्ती-
ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम्
एष चैव स्वभावो मे पूजयेयं द्विजानिति
तव चैव प्रियं कार्यं श्रेयश्चैतत्प्रियं मम
अद्येवैष्यति सायाह्ने यदि प्रातरथो निशि
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति
लाभोऽयं मम राजेन्द्र यद्वै पूजयती द्विजान्
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम
विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते
यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ
यतिष्ये तदहं कर्तुं व्येतु ते मानसो ज्वरः
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते
तारणाय समर्थास्स्युर्विपरीते वधाय च
साऽहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम्
न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात्
अपराधो हि राजेन्द्र राज्ञामश्रेयसे परम्
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम्
यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति
कुन्तिभोजः-
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया
मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि
वैशम्पायनः-
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः
पृथां परिददौ तस्मै द्विजाय सुतवत्सलः
कुन्तिभोजः-
इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता
अपराध्येत यत्किञ्चिन्न तत्कार्यं हृदि तत्त्वया
द्विजातयो महाभागा वृद्धबालतपस्विषु
भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा
सुमहत्यपराधेऽपि क्षमा कार्या द्विजात्तम
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोतिना
वैशम्पायनः-
तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः
हंसचन्द्रांशुसङ्काशं गृहमस्य न्यवेदयत्
तत्राग्निशरणे गुप्तमासनं तस्य भानुमत्
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत्
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधनम्
तं तु सा ब्राह्मणश्रेष्ठमुपचारेण कन्यका
विधिवत्परिचारार्हं देववत्पर्यतोषयत्