जनमेजयः-
किं नु गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना
कीदृशे कुण्डले ते च कवचं चैव कीदृशम्
कुतश्च कवचं तस्य कुण्डले चैव सत्तम
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन
वैशम्पायनः-
अहं राजन्ब्रवीम्येतत्तस्य गुह्यं विभावसोः
यादृशे कुण्डले चैव कवचं चैव यादृशम्
कुन्तिभोजं पुरा राजन्ब्राह्मणस्समुपस्थितः
तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः
दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः
ब्राह्मणः-
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः
भिक्षामिच्छाम्यहं भोक्तुं तव गेहे वत्सरम्
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ
यथाकामं च गच्छेयमागच्छेयं तथैव च
शय्यासने च मे राजन्नापराध्येत कश्चन
वैशम्पायनः-
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः
एवमस्तु परं चेति पुनश्चैनमथाब्रवीत्
कुन्तिभोजः-
मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी
शीलवृत्तान्विता साध्वी नियता नवमानिनी
उपस्थास्यति सा त्वां वै पूजयानावमन्य च
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि
वैशम्पायनः-
एवमुक्त्वा तु तं विप्रं प्रतिपूज्य यथाविधि
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्
कुन्तिभोजः-
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्
त्वयि वत्से परायत्तं ब्राह्मणस्याभिराधनम्
तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित्
अयं तपस्वी भगवान्स्वाध्यायनिरतो द्विजः
यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात्
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः
ब्राह्मणानां नमस्कारैस्सूर्यो दिवि विराजते
अमानयंस्तान्दाण्डक्यो वातापिश्च महासुरः
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च
विन्ध्यश्चैव समुद्रश्च नहुषश्च विहिंसितः
सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम्
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्
जानामि प्रणिधानं ते बाल्यात्प्रभृति भामिनि
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह
तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमानधुषु
मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते
सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि
सन्देष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति
पृथे बालेति कृत्वा तु सुतेवासि ममैव हि
वृष्णीनां च कुले जाता कुले मम विवर्धिता
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवापगा
दौष्कुलेया विशेषेण कथञ्चित्प्रग्रहं गताः
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाश्शुभे
पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम्
तेन तेनासि सम्पन्ना समुपेताप्यनिन्दिते
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि
आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्
कोपिते च द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम्