मार्कण्डेयः-
काले बहुतिथे तस्य व्यतिक्रान्ते कदाचन
प्राप्तस्स कालो मर्तव्यं यत्र सत्यवता नृप
गणयन्त्याश्च सावित्र्या दिवसे दिवसे यथा
तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः
चतुर्थेऽहनि मर्तव्यमिति सञ्चिन्त्य भामिनी
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽभवत्
तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः
उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन्
द्युमत्सतः-
अतितीव्रोऽयमारम्भस्त्वयाऽऽरब्धो नृपात्मजे
तिसृणां वसतीनां हि स्थानं परमदुष्करम्
सावित्री-
न कार्यस्तात सन्तापः करयिष्याम्यहं व्रतम्
व्यवसायकृतं हीदं व्यवसायश्च कारणम्
द्युमत्सेनः-
व्रतं ते नेति वा वक्तुं त्वां नास्मि शक्तः कथञ्चन
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत्
मार्कण्डेयः-
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः
तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ
दुःखान्वितायास्तिष्ठन्त्यास्सा रात्रिर्व्यत्यवर्तत
अद्य वै तद्दिनं चेति हुत्वा दीप्तं हुताशनम्
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः
ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताश्शुभाः
ऊचुस्तपस्विनस्सर्वे तपोवननिवासिनः
एवमस्त्विति सावित्री ध्यानयोगपरायणा
मनसा ता गिरस्सर्वाः प्रत्यगृह्णात्तपस्विनी
तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता
ततश्च श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्
एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम
श्वश्रूश्वशुरौ-
सावित्री-
व्रतो यथोपदिष्टोऽपि यथावत्पारितस्त्वया
आहारकालस्सम्प्राप्तः क्रियतां यदनन्तरम्
अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया
मार्कण्डेयः-SV-03-42-251-017a
स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम्
सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि
सह त्वया गमिष्यामि न हि त्वां हातुमुत्सहे
सत्यवान्-
वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि
सावित्री-
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः
गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि
सत्यवान्-
यदि ते गमनोत्साहः करिष्यामि तव प्रियम्
मम त्वामन्त्रय गुरून्न मे दोषस्स्पृशेदयम्
मार्कण्डेयः-
साऽभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता
सावित्री-
अयं गच्छति मे भर्ता फलाहारो महावनम्
इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च
अनेन सह निर्गन्तुं न हि मे विरहः प्रियः
गुर्वग्निहोत्रार्थकृते प्रस्थितोऽयं सुतस्तव
न निवार्यो निवार्यस्स्यादन्यथा प्रस्थितो वनम्
संवत्सरः किञ्चिदूना न निष्क्रान्ताऽहमाश्रमात्
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे
द्युमत्सेनः-
यदा प्रभृति सावित्री पित्रा दत्ता स्नुषा मम
नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्
तदेषा लभतां कामं यथाभिलषितं वधूः
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि
मार्कण्डेयः-
उभाभ्यां समनुज्ञाता सा जगाम यशस्विनी
सह भर्त्रा हसन्तीव हृदयेन विदूयता
सा वनानि विचित्राणि रमणीयानि सर्वशः
मयूररवघुष्टानि ददर्श विपुलेक्षणा
नदीं पुण्यवहां चैव पुष्पितांश्च नगोत्तमान्
सत्यवानाह पश्येति सावित्रीं मधुराक्षरम्
सा वीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता
मृतमेव हि तं मेने काले मुनिवचस्स्मरन्
अवर्जयन्तीव पतिं जगाम मृदुगामिनी
द्विधेव हृदयं कृत्वा तं च कालं प्रतीक्षती