मार्कण्डेयः-
अथ कन्याप्रदानेन तमेवार्थं विचिन्तयन्
समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः
ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान्
समाहूय तिथौ पुण्ये प्रययौ सह कन्यया
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं पुनः
पद्भ्यामेवाथ तैस्सार्धं राजर्षिंस्तमुपागमत्
तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम्
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा
स राजा तस्य राजर्षेः कृत्वा पूजां यथाऽर्हतः
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम्
तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित्
किमागमनमित्येवं राजा राजानमब्रवीत्
तस्य सर्वमभिप्रायमितिकर्तव्यतां वचः
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत्
सावित्री नाम राजर्षे कन्येयं मम शोभना
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे सङ्गृहाण मे
द्युमत्सेनः-
च्युताश्च राज्याद्वनवासमाश्रिताश्श्चराम धर्मं नियतास्तपस्विनः
कथं त्वनर्हा वनवासमाश्रमे सहिष्यति क्लेशमिमं सुता तव
अश्वपतिः-
सुखं च दुःखं च भवाभवात्मकं यदा विजानाति सुताऽहमेव च
न मद्विधे युज्यति वाक्यमीदृशं विनिश्चयेनाहमिहागतो नृप
आशां नार्हसि मे हन्तुं सौहृदात्प्रणयेन च
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि
अनुरूपो हि संयुक्तस्त्वं ममाहं तवापि च
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्सुताम्
द्युमत्सेनः-
पूर्वमेवाभिलषितस्सम्बन्धो मे त्वया सह
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम्
अभिप्रायस्त्वयं वै ते पूर्वमेवाभिकाङ्क्षितः
सत्यो निर्वर्त्यतां सत्यं काङ्क्षितो ह्यसि मेऽतिथिः
मार्कण्डेयः-
ततस्सर्वान्समानीय द्विजानाश्रमवासिनः
यथाविधि समुद्वाहं कारयामासतुर्नृपौ
दत्त्वा चाश्वपतिः कन्यां यथार्हं स्वपरिच्छदम्
ययौ स्वमेव भवनं युक्तः परमया मुदा
सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम्
मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम्
गते पितरि सर्वाणि सन्न्यस्याभरणानि सा
जगृहे वल्कलान्येव वस्त्रं काषायमेव च
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च
सर्वकामक्रियाभिश्च भर्तारं पर्यतोषयत्
एवं तत्राश्रमे तेषां तदा निवसतां सताम्
कालस्तपस्यतां कश्चिदतिचक्राम भारत
सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम्
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते