मार्कण्डेयः-
एवमेतन्महाबाहो रामेणामिततेजसा
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा
मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परन्तप
बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये
न हि ते वृजिनं किञ्चिद्दृश्यते परमण्वपि
अस्मिन्मार्गे विषीदेयुस्सेन्द्रा अपि सुरासुराः
संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी
सहायवति सर्वार्थास्सन्तिष्ठन्तीह नित्यशः
किं नु तस्याजितं सङ्ख्ये भ्राता यस्य धनञ्जयः
अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः
युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ
एभिस्सहायैः कस्मात्त्वं विषीदसि परन्तप
य इमे वज्रिणस्सेनां जयेयुस्समरुद्गणाम्
त्वमप्येभिर्महेष्वासैस्सहायैर्देवरूपिभिः
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ
इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः
आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्
जयद्रथं च राजानं विजितं समागतम्
असहायेन रामेण वैदेही पुनराहृता
हत्वा सङ्ख्ये दशग्रीवं राक्षसं भीमविक्रमम्
यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा
जात्यन्तरगता राजन्नेतद्बुद्ध्या विचारय
तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ
त्वद्विधा हि महात्मानो न शोचन्ति परन्तप
वैशम्पायनः-
एवमाश्वासितो राजा मार्कण्डेयेन धीमता
त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत्