मार्कण्डेयः-
तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ
बबन्ध रावणिर्भूयश्शरैर्दत्तवरैस्तदा
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे
दृष्ट्वा पतितौ भूमौ सर्वाङ्गेषु शराचितौ
सुग्रीवः कपिभिस्सार्धं परिवार्योपतस्थिवान्
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च
हनूमन्नीलतारैश्च नलेन च महात्मना
ततस्तं देशमागम्य कृतकर्मा विभीषणः
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रमोहितौ
विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया
तौ लब्धसञ्ज्ञौ नृवरौ विशल्यावुदतिष्ठताम्
उभौ गतक्लमौ चास्तां क्षणेनोभौ महारथौ
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम्
उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः
विभीषणः-
अयमम्भो गृहीत्वा तु राजराजस्य शासनात्
गुह्यकोऽभ्यागतश्चैव त्वत्सकाशरिन्दम
इदमम्भः कुबेरस्ते महाराज प्रयच्छति
अन्तर्हितानां भूतानां दर्शनार्थं परन्तप
अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत
भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति
मार्कण्डेयः-
तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम्
चकार नेत्रयोश्शौचं लक्ष्मणश्च महामनाः
सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः
तथा समभवच्चापि यदुवाच विभीषणः
क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदाऽऽत्मनः
निवेद्य पुनरागच्छत्स्वरयाजिशिरः प्रति
तमागतं तु ङ्क्रुद्धं पुनरेव युयुत्सया
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः
कृताह्रिकमथैवैनं जिघांसुर्जितकाशिनम्
शरैर्जघान सङ्क्रुद्धः कृतसञ्ज्ञोऽथ लक्ष्मणः
ततस्समभवद्युद्धं तदाऽन्योन्यं जिगीषतोः
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव
सोऽविध्यदिन्द्रजित्तीक्ष्णैस्सौमित्रिं मर्मभेदिभिः
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान्
तस्येमान्पावकस्पर्शैस्सौमित्रिः पत्रिभिस्त्रिभिः
वारयामास नाराचैस्सौमित्रिर्मित्रनन्दनः
असृजल्लक्ष्मणश्चाष्टौ राक्षसाय शरान्पुनः
तथा तं नयहनद्वीरस्तन्मे निगदश्श्रृणु
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत्
द्वितीयेन तु बाणेन भुजमन्यमपातयत्
तृतीयेन तु बाणेन पृथुधारेण भास्वता
जहार सुनसं चापि शिरो भ्राजिष्णुकुण्डलम्
विनिकृत्तभुजस्कन्धः कबन्धाकृतिदर्शनः
पपात वसुधायां तु छिन्नमूल इव द्रुमः
तं हत्वा सूतमप्यस्य जघान बलिनांवरः
लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा
ददर्श रावणस्तं च रथं पुत्रविनाकृतम्
स पुत्रं निहतं दृष्ट्वा त्रासात्सम्भ्रान्तलोचनः
रावणश्शोकमोहार्तो वैदेहीं हन्तुमुद्यतः
अशोकवनिकास्थां तां रामदर्शनलालसाम्
खड्गमादाय दुष्टात्मा जवेनाभिपपात ह
तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम्
शमयामास सङ्क्रुद्धं श्रूयतां येन हेतुना
अवध्यः-
महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि
हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे
न चैषा देहभेदेन हता स्यादिति मे मतिः
जहि भर्तारमेवास्या हते तस्मिन्हता भवेत्
न हि ते विक्रमे तुल्यस्साक्षादपि शतक्रतुः
असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि
मार्कण्डेयः-
एवं बहुविधैर्वाक्यैरवध्यो रावणं तदा
क्रुद्धं संशमयामास जगृहे च स तद्वचः
निर्याणे स मतिं कृत्वा नियन्तारं क्षपाचरः
आज्ञापयामास तदा रथो मे युज्यतामिति