मार्कण्डेयः-
ततो निर्याय स्वपुरात्कुम्भकर्णस्सहानुगः
अपश्यत्कपिसैन्यं तज्जितकाश्यग्रतस्स्थितम्
तमभ्येत्याशु हरयः परिवार्य समन्ततः
शैलवृक्षायुधा नादानमुञ्चन्भीमनोस्स्वनाः
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः
करजैरतुदंश्चान्ये विहाय भयमुत्तमम्
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवङ्गमाः
नानाप्रहरणैर्भीमं राक्षसेन्द्रमताडयन्
स ताड्यमानः प्रहसन्भक्षयामास वानरान्
पनसश्च गवाक्षश्च वज्रबाहुश्च वानरः
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः
उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा
तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान्
अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः
ततो निपत्य वेगेन कुम्भकर्णं महामनाः
सालेन जघ्निवान्मूर्ध्नि तरुणस्स च वानरः
स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि
बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः
ततो विनद्य प्रहसन्शालस्पर्शविबोधितः
दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात्
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा
अवेक्ष्याभ्यद्रवद्वीरस्सौमित्रिर्मित्रनन्दनः
सोऽभिपत्य महावेगं रुक्मपुङ्खं महाशरम्
प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा
स तस्य देहावरणं भित्त्वा देहं च सायकः
जगाम दारयन्भूमिं रुधिरेण समुक्षितः
तथा स भिन्नहृदयस्समुत्सृज्य कपीश्वरम्
वेगेन महताऽऽविष्टस्तिष्ठतिष्ठेति चाब्रवीत्
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम्
तस्याभिद्रवतस्तूर्णं क्षुराभ्यामूर्जितौ करौ
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः
ततो ह्यस्य भुजान्सर्वान्प्रगृहीतशिलायुधान्
क्षुरैश्चिच्छेद लघ्वस्त्रं सौमित्रिः प्रतिदर्शयन्
स बभूवातिकायश्च बहुपादशिरोभुजः
तं ब्रह्मास्त्रेण सौमित्रिर्ददाहाद्रिचयोपमम्
स बभूव महावीर्यो दिव्यास्त्राभिहतो रणे
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव
तं दृष्ट्वा वृत्रसङ्काशं कुम्भकर्णं तरस्विनम्
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात्
ततस्तद्विद्रुतं सैन्यं दृष्ट्वा तौ दूषणानुजौ
अवस्थाप्या च सौमित्रिं सङ्क्रुद्धावभ्यधावताम्
द्रवन्तौ सहसा क्रुद्धौ वज्रवेगप्रमाथिनौ
प्रतिजग्राह सौमित्रिर्वध्यमानः पतत्रिभिः
ततस्सुतुमुलं युद्धमभवद्रोमहर्षणम्
दूषणानुजयोः पार्थ लक्ष्मणस्य च धीमतः
महता शरवर्षेण राक्षसौ सोऽभ्यवर्षत
तौ चापि वीरौ सङ्क्रुद्धावुभौ तौ सम्प्रवर्षताम्
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः
सौमित्रेश्च महाबाहोस्सम्प्रहारस्सुदारुणः
अथाद्रिशृङ्गमादाय हनूमान्मारुतात्मजः
अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः
नीलश्च सहसा गृह्य दूषणावरजं हरिः
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः
ततः प्रावर्तत पुनस्सङ्ग्रामः कटुकोदयः
रामरावणसैन्यानामन्योन्यमभिधावताम्
शतशो नैर्ऋतान्वन्या जघ्नुर्वन्यांश्च नैर्ऋताः
नैर्ऋतास्तत्र वध्यन्ते प्रायशो न तु वानराः