मार्कण्डेयः-
ततः प्रहस्तस्सहसा समभ्येत्य विभीषणम्
गदया ताडयामास विनद्य रणकर्कशम्
स तयाऽभिहतो धीमान्गदया भीमवेगया
नाकम्पत महाबाहुर्हिमवानिव सुस्थितः
ततः प्रगृह्य विपुलां शतघण्टां विभीषणः
अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति
पतन्त्या स तया वेगाद्राक्षसोऽशनिना यथा
हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम्
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्
तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम्
दृष्ट्वैव सहसा दीर्णा रणे वानरपङ्गवाः
ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपङ्गवान्
निर्यायौ कपिशार्दूलो हनूमान्पर्यवस्थितः
तं दृष्ट्वाऽवस्थितं सङ्ख्ये हरयः पवनात्मजम्
वेगेन महता राजन्सन्न्यवर्तन्त सर्वशः
ततश्शब्दो महानासीत्तुमुलो रोमहर्षणः
रामरावणसैन्यानामन्योन्यमभिधावताम्
तस्मिन्प्रवृत्ते सङ्ग्रामे घोरे रुधिरकर्दमे
धूम्राक्षः कपिसैन्यं तद्द्रावयामास वीर्यवान्
तं राक्षसं महामात्रमापतन्तं सपत्नजित्
तरसा प्रतिजग्राह हनूमान्पवनात्मजः
तयोर्युद्धमभूद्घोरं हरिराक्षससैन्ययोः
जिगीषतोर्यथाऽन्योन्यमिन्द्रप्रह्लादयोरिव
गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम्
कपिश्च जघ्निवान्रक्षस्सस्कन्धविटपैर्द्रुमैः
ततस्तमतिकायेन साश्वं सरथसारथिम्
धूम्राक्षमवधीद्धीमान्द्रुमेण पवनात्मजः
ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसात्मजम्
हरयो जातविस्रम्भा जघ्नुरन्ये च सैनिकान्
ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः
राक्षसा भग्नसङ्कल्पा लङ्कामभ्यपतन्भयात्
तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन्
श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि
धूम्राक्षं च महेष्वासं ससैन्यं राक्षसैस्सह
सुदीर्घमिव निश्श्वस्य समुत्पत्य वरासनात्
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः
इत्येवमुक्त्वा विविधैर्वादित्रैस्सुमहास्वनैः
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत्
प्रबोध्य महता चैनं यत्नेनागतसाध्वसः
स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम्
रावणः-
धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी
य इदं दारुणं कालं न जानीषे महाभयम्
एष तीर्त्वाऽर्णवं रामस्सेतुना हरिभिस्सह
अवमन्येह नस्सर्वान्करोति कदनं महत्
मयाप्यपहृता सीता भार्या नामास्य जानकी
तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे
तेन चैव प्रहस्तादिर्महान्नस्स्वजनो हतः
तस्य नान्यो निहन्ताऽस्ति त्वदृते शत्रुकर्शन
दंशितो ह्यद्य निर्याहि त्वमद्य बलिनां वर
रामादीन्समरे सर्वाञ्जहि शत्रूनरिन्दम
दूषणावरजौ चैव वज्रवेगप्रमाथिनौ
तौ त्वां सैन्येन महता सहितावनुयास्यतः
मार्कण्डेयः-
इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम्
सन्दिदेशेतिकर्तव्यं वज्रवेगप्रमाथिनौ
तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात्