मार्कण्डेयः-
ततो निविशमानांस्तान्सैनिकान्रावणानुगाः
अभिजग्मुर्गणानैकाः पिशाचाः क्षुद्रराक्षसाः
पर्वणः पूतनो जम्भः खरः क्रोधवशो हरिः
प्ररुजश्चारुजश्चैव प्रहस्तश्चैव मानदः
ततो निपततां तेषामदृश्यानां दुरात्मनाम्
अन्तर्धानवधं तत्र चकार स विभीषणः
ते दृश्यमाना हरिभिर्बलिभिर्दूरपातिभिः
निहतास्सर्वतो राजन्महीं जग्मुर्गतासवः
अमृष्यमाणस्सबलो रावणो निर्ययावथ
व्यूह्य चौशनसं व्यूहं हरीन्सर्वान्न्यवारयत्
राघवस्त्वथ निर्याय व्यूढानीकं दशाननम्
बार्हस्पत्यं विधिं कृत्वा प्रत्यव्यूह व्यदर्शत
समेत्य युयुधे तत्र ततो रामेण रावणः
युयुधे लक्ष्मणश्चैव तथैवेन्द्रजिता सह
विरूपाक्षेण सुग्रीवस्तारेणाट निखर्वणः
पौण्ड्रेण च नलस्तत्र पटुशः पनसेन च
विषह्यं यं स्म यो मेने स स तेन समेयिवान्
युयुधे युद्धवेलायां स्वबाहुबलमाश्रितः
स सम्प्रहारो ववृधे भीरूणां भयवर्धनः
रोमसंहर्षणो घोरः पुरा देवासुरे यथा
रावणो राममानर्छच्छक्तिशूलासिवृष्टिभिः
निशितैरायसैस्तीक्ष्णै रावणं चापि राघवः
तथैवेन्द्रजितं यत्तं लक्ष्मणो मर्मभेदिभिः
इन्द्रजिच्चापि सौमित्रिं बिभेद निशितैश्शरैः
विभीषणः प्रहस्तं च प्रहस्तश्च विभीषणम्
काकपक्षशरैस्तीक्ष्णैः प्रत्यविध्यद्गतव्यथः
तेषां बलवतामासीन्महास्त्राणां समागमः
विव्यथुस्सकला येन त्रयो लोकाश्चराचराः