मार्कण्डेयः-
प्रभूतान्नोदके तस्मिन्बहुमूलफले वने
सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत
रावणस्तु विधिं चक्रे लङ्कायां शास्त्रनिर्मितम्
प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा
अगाधतोयाः परिखा मीननक्रसमाकुलाः
बभूवुस्सप्त परिघाः खादिरैश्शङ्कुभिश्चिताः
कर्णाट्टयन्त्रा दुर्धर्षा बभूवुर्बसहुधोपलाः
साशीविषघटायोधास्ससर्जरसपांसवः
मुसलालातनाराचतोमरासिपरश्वथाः
अन्विताश्च शतघ्नीभिस्समधूच्छिष्टमुद्गराः
पुरद्वारेषु सर्वेषु गुल्मास्स्थावरजङ्गमाः
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः
अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः
विदितो राक्षसेन्द्रस्य प्रविवेश हतव्यथः
मध्ये राक्षसकोटीनां बह्वीनां स महाबलः
शुशुभे मेघमालाभिरादित्य इव संवृतः
अङ्गदः-
स समासाद्य पौलस्त्यममात्यैरभिसंवृतम्
रामसन्देशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः
श्रीरामः-
प्राप्तकालमिदं वाक्यं तदाधत्स्व सुदुर्मते
अकृतात्मानमासाद्य राजानमनये रतम्
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च
त्वयैकेनापराधेन मे सीतामाहरता बलात्
वधायानपराद्धानामन्येषां तद्भविष्यति
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः
ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः
राजर्षयश्च निहता रुदन्त्यश्चाहृतास्स्त्रियः
तदिदं समनुप्राप्तं फलं तस्यानयस्य ते
हन्तास्मि त्वां सहामात्यं बुध्यस्व पुरुषो भव
पश्य मे धनुषो वीर्यं मानुषस्य निशाचर
मुञ्च तां जानकीं मा वा न वै मोक्षोऽथ कर्हिचित्
अराक्षसमिमं लोकं कर्तास्मि निशितैश्शरैः
मार्कण्डेयः-
इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः
इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः
चतुर्ष्वङ्गेषु जगृहुश्शार्दूलमिव पक्षिणः
तांस्ततोऽङ्गेषु संसक्तानङ्गदो रजनीचरान्
आदायैव खमुत्पत्य प्रासादतलमाविशत्
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः
भुवि सम्भिन्नहृदयाः प्रहारपरिपीडिताः
समुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत्
लङ्घयित्वा पुरीं रम्यां सुवेलस्य समीपतः
कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः
विशश्राम स तेजस्वी राघवेणाभिनन्दितः
ततस्सर्वाभिसारेण हरीणां वातरंहसाम्
भेदयामास लङ्कायाः प्राकारं रघुनन्दनः
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः
दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम्
करभारुणगात्राणां हरीणां युद्धशालिनाम्
कोटीशतसहस्रेण लङ्कामभ्यपतंस्ततः
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः
शालिप्रसूनसदृशैश्शिरीषकुसुमप्रभैः
तरुणादित्यसदृशैरतिगौरैश्च वानरैः
प्राकारं ददृशुस्ते तु समन्तात्कपिभिर्वृतम्
राक्षसा विष्ठिताश्चास्न्सस्त्रीवृद्धास्समन्ततः
बिभिदुस्ते मणिस्तम्भान्कर्णास्थिशिखराणि च
भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः
परिगृह्य शतघ्नीश्च सचक्रास्सहलोपलाः
चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः
प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा
प्रदुद्रुवुस्ते शतशः कपिभिस्समभिद्रुताः
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः
निर्ययुर्विकृताकारास्सहस्रशतसङ्घशः
अस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः
प्राकारं शोधयन्तस्ते परं विस्मयमास्थिताः
स माषराशिसदृशैर्बभूव क्षणदाचरैः
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः
पेतुश्शूलविभिन्नाङ्गा बहवो वानरर्षभाः
स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः
केशाकेश्यभवद्युद्धं रक्षसां वानरैस्सह
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम्
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः
हता निपतिता भूमौ नैवामुञ्चन्परस्परम्
रामस्तु शरजालानि ववर्ष जलदो यथा
तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान्
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः
आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान्
ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया
कृते विमर्दे लङ्कायां लब्धलक्षो जयोऽभवत्