मार्कण्डेयः-
ततस्तत्रैव रामस्य समासीनस्य तैस्सह
समाजग्मुः कपिश्रेष्ठास्सुग्रीववचनात्ततः
वृतः कोटिसहस्रेण वानराणां तरस्विनाम्
श्वशुरो वालिनश्श्रीमान्सुषेणो राममभ्ययात्
कोटीशतवृतौ चाऽपि गजो गवय एव च
वानरेन्द्रौ महाबाहू पृथक्पृथगदृश्यताम्
षष्टिः कोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः
गन्धमादनवासी तु प्रथितो गन्धमादनः
कोटीसहस्रमुग्राणां हरीणां समकर्षत
पनसो नाम मेधावी वानरस्सुमहाबलः
कोटीर्दश द्वादश च त्रिंशत्पञ्च पञ्च च कर्षति
श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान्
प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम्
कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्
कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत
एते चान्ये च बहवो हरियूथपयूथपाः
असङ्ख्येया महाराज समीयू रामकारणात्
शिरीषकुसुमाभानां सिंहानामिव नर्दताम्
श्रूयते तुमुलश्शब्दस्तत्रतत्र स्म धावताम्
गिरिकूटनिभाः केचित्केचिन्महिषसन्निभाः
शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः
उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुस्समन्ततः
स वानरमहालोकः पूर्णसागरसन्निभः
निवेशमकरोत्तत्र सुग्रीवानुमते तदा
ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चापि पूजिते
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव
प्रययौ राघवश्श्रीमान्सुग्रीवसहितस्तदा
मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः
जघनं पालयामास सौमित्रिरकुतोभयः
बद्धगोधाङ्गुलित्राणौ राघवौ तत्र जग्मतुः
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव
प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम्
सुमहच्छालिभवनं यथा सूर्योदयं प्रति
नलनीलाङ्गदक्राथमैन्दद्विविदपालिता
ययौ सुमहती सेना राघवस्यार्थसिद्धये
विधिवत्सु प्रशस्तेषु बहुमूलफलेषु च
प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च
निवसन्ती निराबाधा तथैव गिरिसानुषु
उपायाद्धरिसेना सा क्षारोदमथ सागरम्
द्वितीयसागरनिभं तद्बलं बहुलध्वजम्
वेलावनं समासाद्य निवासमकरोत्तदा
ततो दाशरथिश्श्रीमान्सुग्रीवं प्रत्यभाषत
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः
श्रीरामः-
उपायः को नु भवतां मम सागरलङ्घने
इयं च महती सेना सागरश्चापि दुस्तरः
मार्जण्डेयः-
तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः
समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः
केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः
नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत
श्रीरामः-
शतयोजनविस्तारं अशक्तास्सर्ववानराः
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः
नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा
वणिजामुपघातं च कथमस्मद्विधश्चरेत्
विस्तीर्णं चैव तत्सैन्यं हन्याच्छिद्रेषु चापरः
प्लवोडुपप्रतारश्च नैवात्र मम रोचते
अहं त्विमं जलनिधिं समारप्स्याम्युपायतः
प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः
न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः
मार्कण्डेयः-
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः
प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे
सागरस्तु ततस्सुप्तं दर्शयामास राघवम्
देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः
कौसल्यामातरित्येवमाभाष्य मधुरं वचः
इदमित्याह रत्नानामाकरैः शतशो वृतः
सागरः-
मार्कण्डेयः-
ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ
इक्ष्वाकोऽस्मि च ते ज्ञाति राम सत्यपराक्रम
एचमुक्तस्समुद्रेण रामो वाक्यमथाब्रवीत्
श्रीरामः-
मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते
येन गत्वा दशग्रीवं हन्यां फुलपांसनम्
राक्षसं सानुजं तं तु मम भार्यापहारिणम्
यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः
मार्कण्डेयः-
इत्येवं ब्रुवतश्श्रुत्वा रामस्य वरुणालयः
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिस्स्थितः
सागरः-
नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर
यदि दास्यामि ते मार्गं सैन्यस्य भवदाज्ञया
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात्
अस्ति त्वत्र नलो नाम वानरश्शिल्पिसत्तमः
त्वष्टुः काकुत्स्य तनयो बलवान्विश्वकर्मणः
स यत्काष्ठं तृणं वाऽपि शिलां प्रक्षिप्यते मयि
समस्तं धारयिष्यामि स ते सेतुर्भविष्यति
मार्कण्डेयः-
श्रीरामः-
इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम
मार्कण्डेयः-
तेनोपायेन काकुत्स्थस्सेतुबन्धमकारयत्
दशयोजनविस्तारमायतं शतयोजनम्
नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि
स स्याज्ञां पुरस्कृत्य धार्यते गिरिसन्निभः
तत्रैव स तु धर्मात्मा समागच्छद्विभीषणः
भ्राता तु राक्षसेन्द्रस्य चतुर्भिस्सचिवैस्सह
प्रतिजग्राह रामस्तं स्वागतेन महामनाः
सुग्रीवस्य तु शङ्काभूत्प्रणिधिस्स्यादिति स्म ह
राघवस्तस्य चेष्टाभिस्सम्यक्च चरितेङ्गितैः
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत्
सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम्
चक्रे च मन्त्रिप्रवरं सुहृदं लक्ष्मणस्य च
विभीषणमते चैव सोऽत्यक्रामन्महार्णवम्
ससैन्यस्सेतुना तेन मासेनैव नराधिप
ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः
भेदयामास कपिभिर्महान्ति च बहूनि च
तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ
चारौ वानररूपेण तौ जग्राह विभीषणः
प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ
दर्शयित्वा ततस्सैन्यं रामः पश्चादवासृजत्
निवेश्योपवने सैन्यं स शूरः प्राज्यवानरम्
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम्