मार्कण्डेयः-
राघवस्तु ससौमित्रिस्सुग्रीवेणाभिपालितः
वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः
स दृष्ट्वा विमले व्योम्नि निर्मलं शशलाञ्छनम्
ग्रहनक्षत्रताराभिरनुयातममित्रहा
कुमुदोत्पलपद्मानां गन्धमादाय वायुना
महीधरस्थस्सहसा शीतेन प्रतिबोधितः
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः
सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि
श्रीरामः-
गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम्
प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम्
योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः
सर्ववानरगोपुच्छा ऋक्षाश्चैनं भजन्ति वै
यदर्थं निहतो वाली मया रघुकुलोद्वह
त्वया सह महाबाहो किष्किन्धोपवने पुरा
कृतघ्नं तमहं मन्ये वानरापशदं भुवि
यो मामेवङ्गतो मूढो न जानीतेऽद्य लक्ष्मण
असौ मन्ये न जानीते समयप्रतिपादनम्
कृतोपकारं मां नूनमवमन्याल्पया धिया
यदि तावदनुद्युक्तश्शेते कामसुखात्मकः
नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया
अथापि घटतेऽस्माकमर्थे वानरपुङ्गवः
तमादायेह काकुत्स्थ त्वरावान्भव माचिरम्
मार्कण्डेयः-
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः
प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः
किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः
सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः
तं सदारो विनीतात्मा सुग्रीवः प्लवगतश्वरः
पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया
तमब्रवीद्रामवचस्सौमित्रिरकुतोभयः
स तत्सर्वमशेषेण शुश्राव हरिपुङ्गवः
सभृत्यस्तं तदा प्रह्वस्स वानरागणाधिपः
इदमाह वचः प्रीतो लक्ष्मणं वानरर्षभः
सुग्रीवः-
नास्मि लक्ष्मण दुर्मेधा नकृतज्ञो न निर्घृणः
श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः
दिशः प्रस्थापितास्सर्वे विनीता हरयो मया
सर्वेषां च कृतः कालो मासेऽनागमने पुनः
यैरियं सवना साद्रिस्सपुरा सागराम्बरा
विचेतव्या महावीर सग्रामनगराकरा
स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति
ततश्श्रोष्यसि रामेण सहितस्सुमहत्प्रियम्
मार्कण्डेयः-
इत्युक्तो वानरेन्द्रेण लक्ष्मणस्तेन धीमता
त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत्
स रामं सहसुग्रीवो माल्यवत्पृष्ठमाश्रितम्
अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्
इत्येवं वादिनस्तस्य आयता वानरास्तदा
दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः
आचख्युस्ते तु रामाय महीं सागरमेखला
विचितां न तु वैदेह्या दर्शनं राक्षसस्य वा
गतास्तु दक्षिणामाशां ये वै वानरपुङ्गवाः
आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽभ्यधारयत्
द्विमासोपरमे काले व्यतीते प्लवगास्ततः
सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन्
वानराः-
रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत्
त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः
विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया
मार्कण्डेयः-
तेषां सप्रणयं श्रुत्वा स मेने स कृतकृत्यताम्
कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम्
स तद्रामाय मेधावी शशंस प्लवगर्षभः
रामश्चाप्यनुमानेन मेने दृष्टां च मैथिलीम्
हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवङ्गमाः
अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसन्निधौ
गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः
अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः
प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा
तानुवाचागतान्रामः प्रगृह्य रुचिरं धनुः
श्रीरामः-
अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता
अपि राज्यमयोध्यायां करयिष्याम्यहं पुनः
निहत्य समरे शत्रूनाहृत्य जनकात्मजाम्
अमोक्षयित्वा वैदेहीमहत्वा च रिपुं रणे
मार्कण्डेयः-
हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः
हनुमान्-
प्रियमाख्यामि ते राम दृष्टाऽऽर्या जानकी मया
विचित्य दक्षिणामाशां सपर्वतवनौकसाम्
श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम्
विशामश्र वयं तां स्म बहुयोजनमायताम्
सान्धकारां सुविपिनां गहनां कीटसेविताम्
गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः
दृष्टवन्तश्च तत्रैव भवनं दिव्यमन्तरा
मयस्य किल दैत्यस्य तदा सीद्वेश्म राघव
तत्र प्रभावती नाम तपोऽतप्यत तापसी
तया दत्तानि भोज्यानि पानानि विविधानि च
भुक्त्वा लब्धबलास्सन्तस्तयोक्तेन पथा ततः॥
निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः
समीपे सह्यमलयौ दर्दुरं च महागिरिम्
ततो मलयमारुह्य पश्यन्तो वरुणालयम्
विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम्
अनेकशतविस्तीर्णं योजनानां महोदधिम्
तिमिनक्रझषावासं चिन्तयन्तस्सुदुःखिताः
तत्रानशनसङ्कल्पं कृत्वाऽऽसीना वयं तदा
ततः कथायां गृध्रस्य जटायोरभवत्कथा
ततः पर्वतशृङ्गाभं घोररूपं भयावहम्
पक्षिणं दृष्टवन्तस्स्म वैनतेयमिवापरम्
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत्
पक्षी-
भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम्
सम्पातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः
अन्योन्यस्पर्धया रूढावावामादित्यसंसदम्
तदा दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः
तस्मान्मे चिरदृष्टस्तु भ्राता गृध्रपतिः प्रियः
निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ
द्रष्टुं वीरं न शक्नोमि भ्रातरं वै जटायुषम्
हनुमान्-
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः
व्यसनं भवतश्चेदं सङ्क्षेपाद्वै निवेदितम्
सम्पातिस्तु तदा राजञ्श्रुत्वा सुमहदप्रियम्
विषण्णचेताः पप्रच्छ पुनरस्मानरिन्दम
सम्पातिः-
कश्च रामः कथं सीता जटायुश्च कथं हतः
इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः
हनुमान्-
तस्याहं सर्वमेवैतं भवतो व्यसनागमम्
प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम्
सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट्
सम्पातिः-
रावणो विदितो मह्यं लङ्का चास्य महापुरी
दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे
भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा
हनुमान्-
इति तस्य वचश्श्रुत्वा वयमुत्थाय सत्वराः
सागरप्लवने मन्त्रं मन्त्रयामः परन्तप
नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घनम्
ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम्
शतयोजनविस्तीर्णं निहत्य जलराक्षसीम्
तत्र सीता मया दृष्टा रावणान्तःपुरे सती
उपवासतपश्शीला भर्तृदर्शनलालसा
जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः
उपसृत्याब्रुवं न्यायादभिगम्य रहोगताम्
सीते रामस्य दूतोऽहं वानरो मारुतात्मजः
त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ
सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ
कुशलं त्वाऽब्रवीद्रामस्सीते सौमित्रिणा सह
सखिभावाच्च सुग्रीवः कुशलं त्वाऽनुपृच्छति
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैर्वृतः
गम्यतामिति मां सीता तदा प्रादादिमं मणिम्
धारिता येन वैदेही कालमेतमनिन्दिता
प्रत्ययार्थं कथां चेमां कथयामास जानकी
जानकी-
क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ
ममाङ्गे पुरुषव्याघ्रः प्रत्यभिज्ञानकारणात्
श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम्
मार्कण्डेयः-
श्रावयित्वा तथाऽऽत्मानं ततो दग्ध्वा च तां पुरीम्
सम्प्राप्तोऽस्मीति तं रामः प्रियवादिनमर्चयत्