मार्कण्डेयः-
ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम्
मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम्
राक्षसीभिरुपास्यन्तीं समासीनां शिलातले
रावणः कामबाणार्तो ददर्शोपससर्प च
देवदानवगन्धर्वयक्षकिम्पुरुषैर्युधि
अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः
दिव्याम्बरधरश्श्रीमान्सुमृष्टमणिकुण्डलः
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान्
स कल्पवृक्षसदृशो यत्नादपि विभूषितः
श्मशानचैत्यद्रुमवद्भूषितोऽपि भयङ्करः
स तस्यास्तनुमध्यायास्समीपे रजनीचरः
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः
स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः
इदमित्यब्रवीद्बालां त्रस्तां मृगवधूमिव
रावणः-
सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः
कुरु प्रसादं तन्वङ्गि क्रियतां परिकर्म ते
भजस्व मां वरारोहे महार्हाभरणाम्बरा
भव मे सर्वनारीणामुत्तमा वरवर्णिनि
सन्ति मे दानवकन्याश्च राजर्षीणां तथाऽङ्गनाः
तासामद्य विश्लाक्षि सर्वासां मे भवोत्तमा
चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः
द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम्
ततो मे त्रिगुणा यक्षा ये मे वचनकारिणः
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः
गन्धर्वाप्सरसो भद्रे मामापानगतं सदा
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम
पुत्रोऽहमपि विप्रर्षेस्साक्षाद्विश्रवसो मुनेः
पञ्चमो लोकपालानामिति मे प्रथितं यशः
दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च
यथैव त्रिदशेशस्य तथैव भज भामिनि
क्षीयतां दुष्कृतं कर्म वनवासकृतं तव
भार्या मे भव सुश्रोणि यथा मण्डोदरी तथा
मार्कण्डेयः-
इत्युक्ता तेन वैदेही परिवृत्य शुभानना
तृणमन्तरतः कृत्वा तमुवाच निशाचरम्
अर्दितेव हि वामोरूरजस्रं नेत्रवारिणा
स्तनावपतितौ बाला सहितावभिवर्षती
व्यवस्थाय कथञ्चित्सा विषादादतिमोहिता
उवाच रावणं क्षुद्रं वैदेही पतिदेवता
सीता-
असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर
विषादयुक्तमेतत्ते मया श्रुतमभाग्यया
तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम्
परदारास्म्यलभ्या च सततं च पतिव्रता
न चैवोपयिकी भार्या मानुषी तव राक्षस
विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि
प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव
न च पालयसे धर्मं लोकपालसमः कथम्
भ्रातरं राजराजं तं महेश्वरसखं प्रभुम्
धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे
मार्कण्डेयः-
इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ
शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा
तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता
ददृशे स्वसिता विषास्निग्धा काली व्यालीव मूर्धनि
तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तमुनिष्ठुरम्
प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः
रावणः-
काममङ्गानि मे सीते दुनोतु मकरध्वजः
न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम्
किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम्
आहारभूतमस्माकं राममेवानुरुध्यसे
माेर्कण्डेयः-
इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम्
राक्षसीभिः परिवृता वैदेही शोककर्शिता
सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा