मार्कण्डेयः-
ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम्
सीताहरणदुःखार्तः पम्पां रामस्समासदत्
मारुतेन सुशीतेन सुखेनामृतगन्धिना
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम्
विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन्
कामबाणाभिसन्तप्तं सौमित्रिस्तमथाब्रवीत्
लक्ष्मणः-
न त्वामेवंविधो भावस्स्प्रष्टुमर्हति मानद
आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीवितम्
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणालये
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय
अभिगच्छाव सुग्रीवं शैलस्थं हरिुङ्गवम्
मयि शिष्ये च भृत्ये च सहाये च समाश्वस
मार्कण्डेयः-
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः
उक्तः प्रकृतिमापेदे कार्ये च त्वरितोऽभवत्
निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि
प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ
तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम्
गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः
हनूमन्तं बुद्धिमन्तं हिमवन्तमिव स्थितम्
तेन सम्भाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः
सख्यं वानरराजेन चक्रे रामस्ततो नृप
ततस्सीतां हृता श्रुत्वा सुग्रीवो वालिना कृतम्
दुःखमाख्यातवान्सर्वं रामायामिततेजसे
तद्वासो दर्शयामास तस्य कार्ये निवेदिते
वानराय तदा सीता ह्रियमाणा व्यवासृजत्
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं वानराधिपम्
पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत्
प्रतिजज्ञे च काकुत्स्थस्समरे वालिनो वधम्
सुग्रीवश्चापि वैदेह्याः पुनरानयने नृप
इत्येवं समयं कृत्वा विश्वास्य च परस्परम्
अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः
सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः
नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत्
तथा नदति सुग्रीवो बलवांस्त्वेष वानरः
मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि
हेममाली ततो वाली तारां ताराधिपाननाम्
उवाच वचनं वाग्मी तां वानरपतिः पतिः
वाली-
सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता
केना वाऽऽश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः
मार्कण्डेयः-
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर
हृतदारो महासत्त्वो रामो दशरथात्मजः
तुल्यारिमित्रतां प्राप्तस्सुग्रीवेण धनुर्धरः
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये
मैन्दश्च द्विविदश्चैव हनूमान्नाम वानरः
जाम्बवानृक्षराजश्च सुग्रीवसहितास्तथा
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः
अलं तव विनाशाय रामवीर्यं व्यपाश्रय
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः
पर्यशङ्कत तां वाली सुग्रीवगतमानसाम्
तारां परुषमुक्त्वा स निर्जगाम गुहामुखात्
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत
वाली-
असकृत्त्वं त्वं मया क्लीब निर्जितो जीवितप्रियः
मुक्तो गच्छसि दुर्बुद्धे कथं घोररणे पुनः
मार्कण्डेयः-
इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः
प्राप्तकालममित्रघ्नं रामं सम्बोधयन्निव
सुग्रीवः-
हृतदारस्य मे राजन्हृतराज्यस्य च त्वया
किं नु जीवितसामर्थ्यमिति विद्धि कपीश्वर
मार्कण्डेयः-
एवमुक्त्वा बहुविधं ततस्तौ सन्निपेततुः
समरे वालिसुग्रीवौ शालतालशिलायुधौ
उभौ जघ्नतुरन्योन्यमुभौ भूमौ तौ सन्निपेततुः
उभौ ववल्गतुश्चित्रं मुष्टिभिश्चाभिजघ्नतुः
उभौ रुधिरसिक्ताङ्गौ नखदन्तपरिक्षतौ
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ
न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते
सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत्
मालया सितया वीरश्शुशुभे कण्ठसक्तया
श्रीमानिव महाशैलो मलयो हेममालया
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाद्धनुः
विचकर्ष धनुश्श्रेष्ठं वालिमुद्दिश्य लक्षयन्
विस्फारस्तस्य धनुषो वज्रस्येव तदा बभौ
वितत्रास तदा वाली शरेणाभिहतो हृदि
स तेन मर्माभिहतो वक्त्राच्छोणितमुद्वमन्
ददर्शाग्रे स्थितं राममारात्सौमित्रिणा सह
गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः
तारा ददर्श तं भूमौ तारापतिमिव च्युतम्
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत
तां च तारापतिमुखीं तारां निपतितेश्वराम्
रामस्तु चतुरो मासान्पृष्ठे माल्यवतश्शुभे
निवासमकरोद्धीमान्सुग्रीवेणाभ्यवस्थितः
रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः
सीतां निवेशयामास भवने नन्दनोपमे
अशोकवनिकाभ्याशे तापसाश्रमसन्निभे
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी
उपवासतपश्शीला ततस्सा पृथुलोचना
उवास दुःखवसतीः फलमूलकृताशना
दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः
प्रासासिशूलपरशुमुद्गरालातधारिणीः
द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम्
त्रिस्तनीमेकपादां च त्रिजटां चैकलोचनाम्
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः
तर्जयन्त्यस्तदा रौद्राः परुषव्यञ्जनाक्षराः
राक्षस्यः-
खादाम पाटयामैनां तिलशः प्रविभज्य ताम्
येयं भर्तारमस्माकमवमन्येह जीवति
मार्कण्डेयः-
इत्येवं परिभर्त्सन्ती ताड्यमाना पुनः पुनः
भर्तृशोकसमाविष्टा निश्श्वस्येदमुवाच ताः
सीता-
आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीवने
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम्
अद्यैवाहं निराहारा जीवन्ती प्रियवर्जिता
शोषयिष्यामि गात्राणि वल्ली तालगता यथा
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते
इति जानीत सत्यं मे क्रियतां यदनन्तरम्
मार्कण्डेयः-
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः
आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी
त्रिजटा-
सीते वक्ष्यामि ते किञ्चिद्विश्वासं कुरु मे सखि
भयं ते व्येतु वामोरु शृणु चेदं वचो मम
अविध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः
सदा रामहितान्वेषी त्वदर्थे मामचूचुदत्
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च
अवद्यः-
भर्ता ते कुशली रामो लक्ष्मणानुगतो बली
सख्यं वानरराजेन शक्रप्रतिमतेजसा
कृतवान्राघवश्श्रीमांस्त्वदर्थे च कृतोद्यमः
मा च ते भूद्भयं भीरु रावणाल्लोकगर्हितात्
नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन्
न शक्तोत्यवशां नारीमुपैतुमजितेन्द्रियः
क्षिप्रमेष्यति ते भर्ता सुग्रीवेण सह प्रभुः
सौमित्रिणा च वीरेण ततस्त्वां मोक्षयिष्यति
त्रिजटा-
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः
विनाशायास्य दुर्बुद्धेः पौलस्तस्य कुलस्य च
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः
स्वभावशीलदोषेण सर्वेषां भयवर्धनः
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः
मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै
तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः
असकृत्खरयुक्ते तु रथे नृत्यमवस्थितः
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः
कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः
श्वेतातपत्रस्सोष्णीषश्शुक्लमाल्यो विभूषणः
श्वेतपर्वतमारूढो मोक्ष्यतेऽस्मान्महाभयात्
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः
हस्तिसञ्चयमारूढो भुञ्जानो घृतपायसम्
लक्ष्मणश्च मया दृष्टो विपश्यन्सर्वतो दिशम्
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम्
हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता
मार्कण्डेयः-
इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः
बभूवाशावती बाला र्भर्तुरेव समागमे
तावदभ्यागता रौद्र्यः पिशाच्यस्ता महारवाः
ददृशुस्तां त्रिजटया सहासीनां यथापुरम्