मार्कण्डेयः-
सखा दशरथस्यापि जटायुररुणात्मजः
गृध्रराजो महावीर्यस्सम्पातिर्यस्य सोदरः
स ददर्श ततस्सीतां रावणाङ्कगतां स्नुषाम्
क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम्
अथैनमब्रवीत्पक्षी मुञ्चमुञ्चेति मैथिलीम्
ध्रियमाणे मयि कथं हरिष्यसि निशाचर
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम्
उक्त्वैवं राक्षसेन्द्रस्य चकर्त नखरैर्भृशम्
पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतम्
चक्षार रुधिरं भूरि गिरिः प्रस्रवणानिव
स वध्यमानो गृध्रेण रामप्रियहितैषिणा
खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः
निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम्
ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन रावणः
यत्रयत्र तु वैदेही पश्यत्याश्रममण्डलम्
सरो वा सरितं वाऽपि तत्र मुञ्चति भूषणम्
सा ददर्श गिरिप्रस्थे पञ्च वानरपुङ्गवान्
तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी
तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम्
मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा
श्रीरामः-
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम्
निवृत्तो ददृशे दूराद्भ्रातरं लक्ष्मणं तदा
कथमुत्सृज्य वैदेहीं वने राक्षससेविते
मार्कण्डेयः-
इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति गर्हयन्
मृगरूपधरेणाथ रक्षसा चापकर्षणम्
भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत्
श्रीरामः-
अपि जीवति वैदेही नेति पश्यामि लक्ष्मण
मार्कणडेयः-
तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः
यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम्
स ददर्श तदा गृध्रं निहतं पर्वतोपमम्
राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः
अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ
जठायुः-
गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य वा
मार्कण्डेयः-
तस्य तद्वचनं श्रुत्वा सङ्गृह्य धनुषी शुभे
कोऽयं पितरमस्माकं नाम्नाऽऽहेत्यूचतुस्तदा
ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं खगम्
तयोश्शशंस सीतार्थे स्वकीयं रावणाद्वधम्
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः
तस्य गृध्रश्शिरः कम्पैराचचक्षे ममार च
दक्षिणानेति काकुत्स्थो विदित्वाऽस्य तदिङ्गितम्
संस्कारं लम्भयामास सखायं पूजयन्पितुः
ततो दृष्ट्वाऽऽश्रमपदं व्यपविद्धबृसीकटम्
विध्वस्तकलशं शून्यं गोमायुबलसेवितम्
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ
जग्मतुर्दण्डकारण्यं दक्षिणेन परन्तपौ
वने महति तस्मिंस्तु रामस्सौमित्रिणा सह
ददर्श मृगयूथानि द्रवमाणानि सर्वशः
शब्दश्च घोरस्सत्त्वानां दावाग्नेरिव दह्यतः
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम्
मेघपर्वतसङ्काशं सालस्कन्धं महाभुजम्
उरोगतविशालाक्षं महोदरमहामुखम्
यदृच्छया हि तद्रक्षः करे जग्राह लक्ष्मणम्
विषादमगमत्तस्य सौमित्रिरथ भारत
स राममभिसम्प्रेक्ष्य कृष्यते येन तन्मुखम्
विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमामिति
हरणं चैव वैदेह्या मम चायमुपप्लवः
राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा
नाहं त्वां सह वैदेह्या समेतं कोसलागतम्
द्रक्ष्यामि पृथिते राज्ये पितृपैतामहे स्थितम्
द्रक्ष्यन्त्यार्यस्य धन्या ये जना श्रीसहितस्य वै
अभिषिक्तस्य वदनं सोमं व्यभ्रमलं यथा
एवं बहुविधं धीमान्विललाप सलक्ष्मणः
तमुवाचाथ काकुत्स्थस्सम्भ्रमेष्वप्यसम्भ्रमः
श्रीरामः-
मा विषीदं नरव्याघ्र नैष कश्चिन्मयि स्थिते
शक्तो घर्षयितुं वीर सुमित्रानन्दवर्धन
छिन्ध्यस्य दक्षिणं बाहुं छिन्नस्सव्यो महाभुजः
मार्कण्डेयः-
इत्येमुक्त्वा रामस्तु भुजं तस्य न्यपातयत्
खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत्
ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्वशी
सौमित्रिरपि सम्प्रेक्ष्य भ्रातरं राघवं स्थितम्
पुनर्जघान पादेन तद्रक्षो लक्ष्मणो भृशम्
गतासुरपतद्भूमौ तद्रक्षस्सुमहाबलः
तस्य देहाद्विनष्क्रम्य पुरुषो दिव्यदर्शनः
ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन्
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः
रामोऽहं दर्शनं चित्रं दुर्दर्शण प्रतिभाति मे
तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप
प्राप्तोऽस्मि ब्रह्मानुशापेन योनिं राक्षससेविताम्
रावणेन हृता सीता लङ्कायां सन्निवरशिता
सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति
एषा पम्पा सितजला हंसकारण्डसेविता
ऋश्यमूकस्य शैलस्य सन्निकर्षतटा नदी
संवसत्यत्र सुग्रीवश्चतुर्भिस्सचिवैस्सह
इत्युक्त्वा दिव्यपुरुष्स्तदा त्वन्तर्हितोऽभवत्
भ्राता वानरराजस्य वालिनो हेममालिनः
विस्मयं जग्मतुश्चोभौ प्रवीरौ रामलक्ष्मणौ
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम्
श्रुतो वानरराजस्य विदितो रावणालयः