मार्कण्डेयः-
मारीचस्त्वथ सम्भ्रान्तो दृष्ट्वा रावणमागतम्
पूजयामास सत्कारैः फलमूलादिभिस्तथा
विश्रान्तं चैनमासीनमन्वासीनस्स रावणम्
उवाच प्रश्रितं वाक्यं वाक्यज्ञो वाक्यकोविदम्
मारीचः-
न ते प्रकृतिमान्वर्णः कच्चित्क्षेमं पुरे तव
कच्चित्प्रकृतयस्सर्वा भजन्ते च यथासुखम्
किमिहागमने चापि कार्यं ते राक्षसेश्वर
कृतमित्येव तद्विद्धि यद्यपि स्यात्सुदुष्करम्
मार्कण्डेयः-
शशंस रावणस्तस्मै तत्सर्वं रामचेष्टितम्
मारीचस्त्वब्रवीच्छ्रुत्वा समासेनैव रावणम्
मारीचः-
अलं ते राममासाद्य वीर्यज्ञो ह्यस्मि तस्य वै
बाणवेगं हि कस्तस्य शक्तस्सोढुं महात्मनः
मार्कण्डेयः-
प्रव्रज्यायां हि मे हेतुस्स एव पुरुषर्षभः
नाशाय सुखमेतत्ते केनाख्यातं दुरात्मना
तमुवाचाथ सङ्क्रुद्धो रावणः परिभर्त्सयन्
रावणः-
अकुर्वतो मद्वचनं स्यान्मृत्युरपि ते ध्रुवम्
मार्कण्डेयः-
मारीचश्चिन्तयामास विशिष्टान्मरणं वरम्
अवश्यं मरणे प्राप्ते करिष्याम्यस्य यन्मतम्
ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम्
मारीचः-
किं ते कार्यं दशग्रीव करिष्याम्यवशोऽपि तत्
मार्कण्डेयः-
तमब्रवीद्दशग्रीवो गच्छ सीतां प्रलोभय
रत्नशृङ्गो मृगो भूत्वा रत्नचित्रतनूरुहः
ध्रुवं सीता समीक्ष्य त्वां राघवं चोदयिष्यति
अपक्रान्ते च काकुत्स्थे सीता वश्या भविष्यति
तामादायापनेष्यामि ततस्स न भविष्यति
भार्यावियोगाद्दुर्बुद्धिरेतत्साह्यं कुरुष्व मे
इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः
रावणं पुरतो यान्तमन्वगच्छत्सुदुःखितः
ततस्तस्याश्रमं गत्वा रामस्याक्लिष्टकर्मणः
चक्रतुस्तत्तथा सर्वमुभौ यत्पूर्वमन्त्रितम्
रावणस्तु यतिर्भूत्वा मुण्डः कुण्डी त्रिदण्डधृक्
मृगो भूत्वाऽथ मारीचस्तं देशमुपजग्मतुः
दर्शयामास वैदेहीं मारीचो मृगरूपधृक्
चोदयामास तस्यार्थे सा रामं विधिचोदिता
रामस्तस्याः प्रियं कुर्वन्धनुरादाय सत्वरः
रक्षार्थे लक्ष्मणं न्यस्य प्रययौ मृगलिप्सया
स धन्वी बद्धतूणीरः खड्गगोधाङ्गुलित्रवान्
अन्वधावन्मृगं रामो रुद्रस्तारामृगं यथा
सोऽन्तर्हितः पुनस्तस्य दर्शनं राक्षसेश्वरः
चकर्ष महदध्वानं रामस्तं बुबुधे ततः
निशाचरं विदित्वा तं राघवः प्रतिभानवान्
अमोघं शरमादाय जघान मृगरूपिणम्
स रामबाणाभिहतः कृत्वा रामस्वरं ततः
हा सीते लक्ष्मणेत्येवं चुक्रोशार्तस्वरेण ह
शुश्राव तस्य वैदेही ततस्तां करुणां गिरम्
सा पपात ततस्सीता तामुवाचाथ लक्ष्मणः
लक्ष्मणः-
अलं ते शङ्कया देवि को रामं विषहिष्यते
मुहूर्ताद्द्रक्ष्यसे राममागतं तं शुचिस्मितम्
मार्कण्डेयः-
इत्युक्ता सा प्ररुदती पर्यशङ्कत देवरम्
हता वै स्त्रीस्वभावेन शुद्धचारित्रभूषणा
सा तं परुषमारब्धा वक्तुं साध्वी पतिव्रता
सीताः-
नैष कालो ह्ययं मूढ यं त्वं प्रार्थयसे वृथा
अप्यहं शस्त्रमादाय हन्यामात्मानमात्मना
पतेयं गिरिशृङ्गाद्वा विशेयं वा हुताशनम्
रामं भर्तारमुत्सृज्य न त्वहं त्वां कदाचन
निहीनमुपतिष्ठेयं शार्दूली क्रोष्टुकं यथा
मार्कण्डेयः-
एतादृशं वचश्श्रुत्वा लक्ष्मणो राघवप्रियः
पिधाय कर्णौ सद्वृत्तः प्रस्थितो येन राघवः
स रामस्य पदं गृह्य प्रससार धनुर्धरः
एतस्मिन्नन्तरे रक्षो रावणः प्रत्यदृश्यत
अभव्यो भव्यरूपेण भस्मच्छन्न इवानलः
यतिवेषप्रतिच्छन्नो जिहीर्षुस्तामनिन्दिताम्
उपागच्छत्स वैदेहीं रावणः पापनिश्चयः
सा तमालक्ष्य सम्प्राप्तं धर्मज्ञा जनकात्मजा
निमन्त्रयामास तदा फलमूलाशनादिभिः
अवमन्य स तत्सर्वं स्वं रूपं प्रतिपद्यत
सान्त्वयामास वैदेहीं कामी राक्षसपुङ्गवः
रावणः-
सीते राक्षसराजोऽहं रावणो नाम विश्रुतः
मम लङ्कापुरी नाम्ना रम्या पारे महोदधेः
तत्र त्वं वरनारीषु शोभिष्यसि मया सह
भार्या मे भव सुश्रोणि तापसं त्यज राघवम्
मार्कण्डेयः-
एवमादीनि वाक्यानि श्रुत्वा सीताथ जानकी
पिधाय कर्णौ सुश्रोणी मैवमित्यब्रवीद्वचः
जानकीः-
प्रपतेद्द्द्यौस्सनक्षत्रा पृथिवी शकलीभवेत्
शुष्येत्यनिघौ तोयं चन्द्रश्शीतांशुतां त्यजेत्
उष्णांशुत्वमथो जह्यादादित्योवहिरुष्णताम्
त्यक्त्वा शैत्यं भजेन्नाहं त्यजेयं रघुनन्दनम्
कथं प्रभिन्नकरटं पद्मिनं वनगोचरम्
अपहाय महानागं करेणुस्सूकरं व्रजेत्
कथं हि पीत्वा माध्वीकं पीत्वा च मधुमाधवीम्
लोभं सौवीरके कुर्यान्नारी काचिदिति स्मरेः
मार्कण्डेयः-
इति सा तं समाभाष्य प्रविवेशाश्रमं ततः
तामनुद्रुत्य सुश्रोणीं रावणः प्रत्यषेधयत्
भर्त्सयित्वा तु रूक्षेण स्वरेण गतचेतनाम्
मूर्धजेषु निजग्राह खमुपाचक्रमे पुनः
तां ददर्श तदा गृध्रो जटायुर्गिरिगोचरः
रुदतीं राम रामेति ह्रियमाणां तपस्विनीम्