मार्कण्डेयः-
वसतस्तस्य रामस्य ततश्शूर्पणखाकृतम्
खरेणासीन्महद्वैरं जनस्थाननिवासिना
रक्षार्थं तापसानां च राघवो धर्मवत्सलः
चतुर्दशसहस्राणि जघान सह रक्षसाम्
दूषणं च खरं चैव निहत्य सुमहाबलौ
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः
हतेषु तेषु रक्षस्सु ततश्शूर्पणखी पुनः
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम्
ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता
पपात पादयोर्मूले संशुष्करुधिरा तदा
तां तदा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन्
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच ह
रावणः-
केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च
कश्शूलं तीक्ष्णमासाद्य सर्वगात्रेषु सेवते
कश्शिरस्यग्निमादाय विस्रब्धस्स्वपते सुखम्
आशीविषं घोरतरं पादेन स्पृशतीह कः
सिंहं केसरिणं कश्च स्पृष्ट्वा दंष्ट्रासु तिष्ठति
मार्कण्डेयः-
इत्येवं ब्रुवतस्तस्य नेत्रेभ्यस्तेजसोऽर्चिषः
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम्
खरदूषणसंयुक्तं राक्षसानां भयावहम्
स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम्
त्रिकूटं समतिक्रम्य कालपर्वतमेव च
ददर्श मकरावासं गम्भीरोदं महोदधिम्
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः
दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः
पुरा रामभयादेव तापसं प्रियजीवितम्