मार्कण्डेयः-
ततो ब्रह्मर्षयस्सिद्धा देवाश्च मुनयस्तथा
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः
अग्निः-
यस्स विश्रवसः पुत्रो दशग्रीवो महाबलः
अवध्यो वरदानेन कृतो भगवता पुरा
स बाधते प्रजास्सर्वा विप्रकारैर्महाबलः
ततो नस्त्रातु भगवन्नान्यस्त्राता न विद्यते
ब्रह्मा-
न स देवासुरैश्शक्यो युद्धे जेतुं विभावसो
विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे
तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः
विष्णुः प्रहरतां श्रेष्ठस्स तत्कर्मकरिष्यति
मार्कण्डेयः-
ब्रह्मा-
पितामहस्ततस्तेषां सन्निधौ वाक्यमब्रवीत्
सर्वैर्देवगणैस्सार्धं सम्भवध्वं महीतले
विष्णोस्सहायानृक्षीषु वानरीषु च सर्वशः
जनयध्वं सुतान्वीरान्कामरूपबलान्वितान्
मार्कण्डेयः-
वानरान्भाग भागेन देवगन्धर्वदानवाः
अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा
तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः
शशास वरदो देवो देवकार्यार्थसिद्धये
पितामहवचश्श्रुत्वा गन्धर्वी दुन्दुभी तदा
मन्थरा मानुषीलोके कुब्जा समभवत्तदा
शक्रप्रभृतस्सर्वे ते देवासुरसत्तमाः
ऋक्षवानरनारीषु जनयामासुरात्मजान्
ओजसा तेजसा युक्तान्यशसा च बलेन च
भेत्तारो गिरिशृङ्गाणां सालतालशिलायुधाः
वज्रसंहननास्सर्वे सर्वे घोरबलास्तथा
कामवीर्यधराश्चैव सर्वे बुद्धिविशारदाः
नागायुतसमप्राणा वायुवेगसमा जवे
यथेच्छविनिपाताश्च केचिदत्र वनौकसः
एवं विधाय तत्सर्वं भगवाल्ँलोकभावनः
मन्थरां बोधयामास यद्यत्कार्यं त्वया तदा
सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा
इतश्चेतश्च गच्छन्ती वैरसन्धुक्षणे रता