मार्कण्डेयः-
पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः
विश्रवा नाम सक्रोधस्स वैश्रवणमैक्षत
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप
स राजराजो लङ्कायां निवसन्नरवाहनः
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः
तास्तथा वै महात्मानं सन्तोषयितुमुद्यताः
ऋषिं भरतशार्दूल नृत्तगीतविशारदाः
पुष्पोत्कटा बका चेति मालिनीति विशां पते
अन्योन्यस्पर्धया राजञ्श्रेयस्कामास्सुमध्यमाः
तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान्
लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान्
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि
मालिनी जनयामास पुत्रमेकं विभीषणम्
बकायां मिथुनं जज्ञे खरश्शूर्पणखा तथा
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकस्तदा
स बभूव महाभागो धर्मगोप्ता क्रियारतः
दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुङ्गवः
महोत्साहो महावीर्यो महासत्त्वपराक्रमः
कुम्भकर्णो महानासीत्सर्वेभ्योऽभ्यधिकस्तदा
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः
खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः
सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तदा
सर्वे वेदविदश्शूरास्सर्वे सुचरितव्रताः
ऊषुः पित्रा सह रता गन्धामादनपर्वते
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्
पित्रा सार्धं समासीनमृद्ध्या परमया युतम्
जातस्पर्धास्ततस्ते तु तपसे कृतनिश्चयाः
ब्रह्माणं तोषयामास घोरेण तपसा तदा
अतिष्ठदेकपादेन सहस्रं परिवत्सरान्
वायुभक्षो दशग्रीवः पञ्चाग्निस्सुसमाहितः
अधश्शायी कुम्भकर्णो यताहारो यतव्रतः
विभीषणश्शीर्णपर्णमेकमभ्यवहारयन्
उपवासरतिश्श्रीमान्सदा जप्यपरायणः
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः
खरश्शूर्पणखी चापि तेषां वै तप्यतां तपः
परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ
पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यत्पितामहः
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत्
प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक्
ब्रह्मा-
प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः
यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत्
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सितम्
तथैव तानि ते देहे भविष्यन्ति यथेप्सितम्
वैरूप्यं च न ते देहे कामरूपधरस्तथा
भविष्यसि रणेऽरीणां विजेतासि न संशयः
रावणः-
गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा
सर्पकिन्नरभूतेभ्यो न मे भूयात्पराभवः
ब्रह्मा-
य एते कीर्तितास्सर्वे न तेभ्योऽस्ति भयं तव
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया
मार्कण्डेयः-
एवमुक्तो दशग्रीवस्तुष्टस्समभवत्तदा
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः
कुम्भकर्णमथोवाच तथैव प्रपितामहः
वरं वृणीष्व भद्रं ते प्रीतोऽस्मीति पुनःपुनः
ब्रह्मा-
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः
तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मि पुनरेव च
विभीषणः-
परमापद्गतस्यापि नाधर्मे मे रतिर्भवेत्
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे
ब्रह्मा-
यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन
नाधर्मे रमते बुद्धिरमरत्वं ददामि ते
मार्कण्डेयः-
राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते
लङ्काया वासयामास युधि जित्वा धनेश्वरम्
हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम्
गन्धर्वयक्षानुगतो रक्षः किम्पुरुषैस्सह
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति
अवमन्य गुरुं मान्यं क्षिप्रं त्वं न भविष्यसि
विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन्
अन्वगच्छन्महाराज श्रिया परमया युतः
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः
सैनापत्यं ददौ धीमान्यक्षराक्षससेनयोः
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः
सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम्
दशग्रीवस्तु दैत्यानां दानवानां बलोत्कटः
आक्रम्य रत्नान्यहरत्कामरूपी विहङ्गमः
रावयामास लोकान्यत्तस्माद्रावण उच्यते
दशग्रीवः कामबलो देवानां भयमादधत्