वैशम्पायनः-
जयद्रथस्तु सम्प्रेक्ष्य भ्रातरावुद्यतायुधौ
प्राद्रवत्तूर्णमव्यग्रो जीवितेप्सुस्सुदुःखितः
तं भीमसेनो यावत्तमवतीर्य रथाद्बली
अभिद्रुतं निजग्राह केशपक्षेऽत्यमर्षणः
समुद्यम्य च तं रोषान्निष्पिपेष महीतले
गले गृहीत्वा राजानं पातयामास चैव हि
पुनस्स जीवमानस्य सद्योत्पतितुमिच्छतः
पदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः
तस्य जानुं ददौ भीमो जघ्ने चैनमरत्निना
स मोहमगमद्राजान्प्रहारवरपीडितः
सरोषं भीमसेनं तु वारयामास फल्गुनः
दुश्शलायाः कृते राजा यत्तदाहेति कौरवः
भीमः-
नायं पापसमाचारो मत्तो जीवितुमर्हति
द्रौपद्यास्तदनर्हायाः परिक्लेष्टा नराधमः
किं नु शक्यं मया कर्तुं यद्राजा सततं घृणी
त्वं तु बालिशया बुद्ध्या यततोऽस्मान्प्रबाधसे
वैशम्पायनः-
एवमुक्त्वा जटास्तस्य पञ्च चक्रे वृकोदरः
अर्धचन्द्रेण बाणेन किञ्चिदब्रुवतस्तदा
विकल्पयित्वा राजानं ततः प्राह वृकोदरः
भीमः-
जीवितं चेच्छसे मूढ हेतुं मे गदतश्शृणु
दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च
एवं चेज्जीवितं दद्यामेष युद्धजितो विधिः
वैशम्पायनः-
एवमस्त्विति तं राजा कृच्छ्रप्राणो जयद्रथः
प्रोवाच पुरुषव्याघ्रं भीममाहवशोभिनम्
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः
रथमारोपयामास विसञ्ज्ञं पांसुगुण्ठितम्
ततस्तं रथमास्थाय भीमः पार्थानुगस्तदा
अभ्येत्याश्रममध्यस्थमभ्यगच्छद्युधिष्ठिरम्
दर्शयामास बीभत्सुस्तदवस्थं जयद्रथम्
तं राजा प्राहसद्दृष्ट्वा मुच्यतामिति चाब्रवीत्
राजानं चाब्रवीद्भीमो द्रौपद्यै कथयेति वै
दासभावं गतो ह्येष पाण्डूनां पापचेतनः
तमुवाच ततो ज्येष्ठो राजा सप्रणयं वचः
युधिष्ठिरः-
वैशम्पायनः-
मुञ्चैनमधमाचारं प्रमाणा यदि ते वयम्
द्रौपदी चाब्रवीद्भीममभिप्रेक्ष्य युधिष्ठिरम्
द्रौपदी-
दासोऽयं मुच्यतां राज्ञस्त्वया पञ्चशिखः कृतः
वैशम्पायनः-
स मुक्तोऽभ्येत्य राजानमभिवाद्य युधिष्ठिरम्
ववन्दे विह्वलो राजा तांश्च वृद्धान्मुनींस्तदा
तमुवाच घृणी राजा धर्मपुत्रो युधिष्ठिरः
तथा जयद्रथं दृष्ट्वा गृहीतं सव्यसाचिना
युधिष्ठिरः-
अभीतो गच्छ मुक्तोऽसि मैवं कार्षीः पुनः क्वचित्
स्त्रीकामुक धिगस्तु त्वां क्षुद्रः क्षुद्रसहायवान्
एवंविधं हि कः कुर्यात्त्वदन्यः पुरुषाधमः
कर्म धर्मविरुद्धं वै लोकदुष्टं च कर्म ते
वैशम्पायनः-
गतसत्त्वमिव ज्ञात्वा कर्तारमशुभस्य तम्
सम्प्रेक्ष्य भरतश्रेष्ठः कृपां चक्रे नराधिपः
युधिष्ठिरः-
धर्मे ते वर्धतां बुद्धिर्मा चाधर्मे मनः कृथाः
साश्वस्सरथपादातस्स्वस्ति गच्छ जयद्रथ
वैशम्पायनः-
एवमुक्तस्स सव्रीलस्तूष्णीं किञ्चिदवाङ्मुखः
जगाम राजा दुःखार्तो गङ्गाद्वाराय भारत
स देवं शरणं गत्वा विरूपाक्षमुमापतिम्
तपश्चचार विपुलं तस्य प्रीतोऽभवत्तदा
जयद्रथः-
बलिं स्वयं प्रत्यगृह्णात्प्रीयमाणस्त्रिलोचनः
वरं चास्मै ददौ देवस्स च जग्राह तं श्रृणु
समस्तान्सरथान्पञ्च जयेयं युधि पाण्डवान्
वैशम्पायनः-
इति राजाऽब्रवीद्देवं नेति देवस्ततोऽब्रवीत्
श्रीभगवान्-
अजय्यांश्चाप्यवध्यांश्च वारयिष्यसि तान्युधि
ऋतेऽर्जुनं महाबाहुं देवैरपि दुरासदम्
यमाहुरजितं देवं शङ्खचक्रगदाधरम्
प्रधानस्सोऽस्त्रविदुषां तेन कृष्णेन रक्ष्यते
वैशम्पायनः-
एवमुक्तस्तु नृपतिस्स्वमेव भवनं ययौ
पाण्डवा विपिने तस्मिन्काम्यके न्यवसंस्तदा