सैन्धवः-
वैशम्पायनः-
सन्तिष्ठध्वं प्रहरत तूष्णीं विपरिधावत
इति स्म सैन्धवो राजा चोदयामास तान्नृपान्
ततो घोरतरश्शब्दो रणे समभवत्तदा
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान्
शिबिसिन्धुत्रिगर्तानां विषादस्समजायत
तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान्
हेमबिन्दुं महोत्सेधां सर्वशैक्यायसीं गदाम्
प्रगृह्याभ्यद्रवद्भीमस्सैन्धवं कालचोदितम्
तदन्तरं समावृत्य कोटिकाश्योऽभ्यहारयत्
महता रथवंशेन परिवार्य वृकोदरम्
शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः
कीर्यमाणोऽपि बहुभिर्न स भीमो व्यकम्पत
गजं तु सगजारोहं पदातींश्च चतुर्दश
जघान गदया भीमस्सैन्धवध्वजिनीमुखे
पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान्
परीप्समानस्सौवीरं जघान ध्वजिनीमुखे
राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्
निमेषमात्रेण शतं जघान समरे तदा
नकुलेऽथ तथा युद्धे रथात्प्रस्कन्द्य खड्गधृक्
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः
सहदेवस्तु संयाय रथेन गजयोधिनः
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः
ततस्त्रिगर्तस्सधनुरवतीर्य महारथात्
गदया चतुरो वाहान्राज्ञस्तस्य तदाऽवधीत्
तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः
अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट्
स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन्
पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः
इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट्
हताश्वस्सहदेवस्य प्रतिपेदे महारथम्
नकुलं चापि संवार्य क्षेमङ्करमहामुखौ
उभावुभयतस्तीक्ष्णैश्शरवर्षैरवर्षताम्
तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः
त्रिगर्तराजस्सुरथस्तस्याथ गजधूर्गतः
रथमाक्षेपयामास गजेन गजयानवित्
नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिखङ्गधृक्
उद्भ्राम्य स्थानमास्थाय तस्थौ गिरिरिवाचलः
सुरथस्तं गजवरं वधाय नकुलस्य तु
प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः
नकुलस्तस्य नागस्य समीपपरिवर्तिनः
सविषाणं भुजं मूले खड्गेन निरकृन्तत
स विनद्य महानादं गजो घण्टाभूषणः
पतन्नवाक्शिरा भूमौ हस्त्यारोहानपोथयत्
स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः
भीमसेनरथं प्राप्य शर्म लेभे महारथः
भीमस्त्वापततो राज्ञः कोटिकाश्यस्य सङ्गरे
सूतस्य तु तदा वाहान्क्षुरेणापाहरच्छिरः
न बुबोध हतं सूतं स राजा बाहुशालिना
तस्याश्वा व्यद्रवन्सङ्ख्ये हतसूतास्ततस्ततः
विरथं हतसूतं तं भीमः प्रहरतां वरः
निजघानातियत्नेन प्रासेनाभ्येत्य पाण्डवः
द्वादशानां तु सर्वेषां सौवीराणां धनञ्जयः
चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च
शिबीनिक्ष्वाकुवीरांश्च त्रिगर्तान्सैन्धवानपि
जघानातिरथस्सङ्ख्ये बाणगोचरमागतान्
सूदिताः प्रत्यदृश्यन्त बहुधा सव्यसाचिना
सपताकाश्च मातङ्गास्सध्वजाश्च महारथाः
प्रच्छाद्य पृथिवीं तस्थुस्सर्वमायोधनं प्रति
शरीराण्यशिरस्कानि विदेहानि शिरांसि च
श्वकाकगृध्रकाकोलभासगोमायुवायसाः
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः
हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः
विमुच्य कृष्णां सन्त्रस्तः पलायनपरोऽभवत्
स तस्मिन्सङ्कुले सैन्ये द्रौपदीमवतार्य च
प्राणप्रेप्सुरुपाधावद्वनं तत्र नराधिपः
द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्
माद्रीपुत्रेण वीरेण रथमारोहयत्तदा
ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे
आदिश्यादिश्य नाराचैराजघान वृकोदरः
सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान्
अर्जुनः-
यस्यापराधात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः
एतस्मिन्समरोद्देशे न पश्यामि जयद्रथम्
तमेवान्विच्छ भद्रं ते किं ते योधैर्निपातितैः
अनार्याणामिदं कर्म कथं वा मन्यते भवान्
वैशम्पायनः-
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता
युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत्
भीमसेनः-
हतप्रवीरा रिपवो भूयिष्ठं विद्रुतं बलम्
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः
यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय
न हि मे मोक्ष्यते जीवन्मूढस्सैन्धवको नृपः
पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः
युधिष्ठिरः-
न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः
दुश्शलामपि सम्प्रेक्ष्य गान्धारीं च यशस्विनीम्
वैशम्पायनः-
तच्छ्रुत्वा द्रौपदी साध्वी उवाच व्याकुलेन्द्रिया
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ
द्रौपदी-
कर्तव्यं चेत्प्रियं मह्यं वध्यस्स पुरुषाधमः
सैन्धवापसदः पापो दुर्मतिः कुलपांसनः
भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः
याचमानोऽपि सङ्ग्रामे न सञ्जीवितुमर्हति
वैशम्पायनः-
इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः
राजा निववृते कृष्णामादाय सपुरोहितः
स प्रविश्याश्रमपदमपविद्धबृसीकटम्
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह
द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैस्समागतैः
समियाय महाप्राज्ञस्सभार्यो भ्रातृमध्यगः
ते स्म तं मुदिता दृष्ट्वा पुनरप्यागतं नृपम्
जित्वा च सिन्धुसौवीरान्द्रौपदीमाहृतां पुनः
स तैः परिवृतो राजा तत्रैवोपविवेश ह
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी
भीमसेनार्जुनावपि श्रुत्वा क्रोशगतं रिपुम्
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम्
इदमत्यद्भुतं चात्र चकारातिरथोऽर्जुनः
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत्
स हि दिव्यास्त्रसम्पन्नः कृच्छ्रकालेऽप्यसम्भ्रमः
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः
ततोऽभ्यधावतां वीरावुभौ भीमधनञ्जयौ
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम्
सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्भृशदुःखितः
रथात्प्रस्कन्ध पद्भ्यां वै पलायनपरोऽभवत्
दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनञ्जयम्
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम्
सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत्
अर्जुनः-
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्
राजपुत्र निवर्तस्व न ते युक्तं पलायनम्
कथं चानुचरान्हित्वा शत्रुमध्ये प्रधावसि
वैशम्पायनः-
इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत
तिष्ठतिष्ठेति तं भीमस्सहसाऽभ्यद्रवद्बली
मा वधीरिति पार्थस्तु दयावानभ्यभाषत