वैशम्पायनः-
ततो दिशस्सम्परिवृत्य पार्था मृगान्वराहान्महिषांश्च हन्वा
धनुर्धराश्श्रेष्ठतमाः पृथिव्यां पृथक्चरन्तस्सहिता बभूवुः
ततो मृगव्यालजनानुकीर्णं महावनं तद्विहगोपजुष्टम्
भ्रातॄंश्चरन्नभ्यवदद्युधिष्ठिरश्श्रुत्वा गिरो व्याहरतां मृगाणाम्
युधिष्ठिरः-
आदित्यदीप्तां दिशमभ्युपेत्य मृगा द्विजाः क्रूरमिमे वदन्ति
आयासमुग्रं प्रतिवेदयन्तो महाभयं शत्रुभिर्वाऽवमानम्
क्षिप्रं निवर्तध्वमलं मृगैर्नो मनो हि मे दूयति दह्यते च
बुद्धिं समाच्छाद्य च मे समन्युरुद्धूयते प्राणपतिश्शरीरे
सरस्सुपर्णन हृतोरगं यथा अराजकं राष्ट्रमिवेह शान्तम्
एवंविधं मे प्रतिभाति काम्यकं शौण्डैर्यथा पीतसुरश्च कुम्भः
वैशम्पायनः-
ते सैन्धवैरग्न्यनिलोद्धवेगैर्महाजवैर्वाजिभिरुह्यमानाः
युक्तैर्बृहद्भिस्सुरथैर्नृवीरास्तदाश्रमायाभिमुखा बभूवुः
तेषां तु गोमायुरनल्पघोषो निवर्ततां वाममुपेत्य पार्श्वम्
प्रव्याहरत्तत्प्रविमृश्य राजा प्रोवाच भीमं च धनञ्जयं च
युधिष्ठिरः-
यथा वदत्येष हि हीनयोनिस्सालावृको वाममुपेत्य पार्श्वम्
सुव्यक्तमस्मान्परिभूय पापैः कृतोऽवमर्दः कुरुभिः प्रसह्य
वैशम्पायनः-
ते न्यायतद्वनमाविशन्तो महत्यरण्ये मृगयां चरित्वा
बालामपश्यन्त तदा रुदन्तीं धात्रेयिकां प्रेष्यवधूं प्रियायाः
तामिन्द्रसेनस्त्वरितोऽभिसृत्य रथादवप्लुत्य ततोऽभ्यधावत्
प्रोवाच चैनां वचनं नरेन्द्र धात्रेयिकामार्ततरस्तदानीम्
इन्द्रसेनः-
किं रोदिषि त्वं पतिता धरण्यां किं ते मुखं शुष्यति दीनवर्णम्
गतेष्वरण्यं हि सुतेषु पाण्डोः कच्चित्परैर्नापकृतं वनेऽस्मिन्
वैशम्पायनः-
पर्याकुला साधु समीक्ष्य सूतमभ्यापतन्तं द्रुतमिन्द्रसेनम्
उरो घ्नती कष्टतरं तदानीमुच्चैः प्रचुक्रोश हृतेति देवी
इन्द्रसेनः-
अनिन्द्यरूपा तु विशालनेत्रा शरीरतुल्या कुरुपुङ्गवानाम्
केनात्मनाशाय यदा पनीता वनं समासाद्य नरेन्द्रपत्नीम्
यथेह देवीं पृथिवीं प्रविष्टा दिवं प्रपन्ना ह्यथवा समुद्रम्
पदं गमिष्यन्ति हि तस्य पार्थास्तथा हि सन्तप्यति धर्मराजः
को हीदृशानामरिमर्दनानां क्लेशक्षमाणामपराजितानाम्
प्राणैस्समामिष्टतमां जिहीर्षेरनुत्तमं रत्नमिव प्रमुष्णन्
न बुध्यते नाथवतीमिहाद्य बहिश्चरं हृदयं पाण्डवानाम्
कस्याद्य कायं प्रतिभिद्य घोरा महीं प्रवेक्ष्यन्ति शिताश्शराग्र्याः
तिष्ठन्ति पद्मानि नवान्यमूनि द्रुमाश्च न ग्लान्ति तथैव भग्नाः
आवर्तयध्वं ह्यनुयान्तु शीघ्रं न दूरयातेव हि राजपुत्री
सन्नह्यध्वं सर्व एवेन्द्रकल्पा महान्ति चारूणि च दंसनानि
गृह्णीत चापानि महाधनानि शरांश्च शीघ्रं पदवीं व्रजध्वम्
पुरा हि निर्भर्त्सनदण्डमोहिता प्रमूढचित्ता वदनेन शुष्यता
ददाति कस्मैचिदनर्हते तनुं वराज्यपूर्णामिव भस्मनि ध्रुवाम्
पुरा तुषाग्नाविव हूयते हविः पुरा श्मशाने स्रगिवापविद्ध्यते
पुरा च सोमोऽध्वरजो वलिपयते शुना यथा विप्रजने हि मोहिते
यथा हि नो वै मृगयां चरित्वा पुरा सृगालो नलिनीं विगाहते
पुरा हि मन्त्राहुतिपूजितायां हुताग्निवेद्यां बलिभुङ्निलीयते
मा वः प्रियायास्सुनसं सुलोचनं चन्द्रप्रभाच्छं वदनं पुरस्तात्
रागाञ्चितः कश्चिदकृत्यकारी श्वा वै पुरोडाशमिवाध्वरस्थम्
एतानि वर्त्मान्यनुयात वासः कालं प्रति क्षिप्रमिहात्यगाद्वै
प्रत्याहरध्वं द्विषतां सकाशाल्लक्ष्मीमिव स्वां दयितां नृसिंहाः
युधिष्ठिरः-
भद्रे तूष्णीमास्स्व नियच्छ वाचं माऽस्मत्सकाशे परुषाण्यवोचः
राजानो वा यदि वा राजपुत्रा बलेन मत्ताः पञ्चतां प्राप्नुवन्ति
वैशम्पायनः-
एतावदुक्त्वा प्रययुर्हि शीघ्रं तान्येव वर्त्मान्यनुवर्तमानाः
मुहुर्मुहुर्व्यालवदुच्छ्वसन्तो ज्यां विक्षिपन्तश्च महाधनुर्भ्यः
ततोऽपश्यंस्तस्य सैन्यस्य रेणुमुद्धूयन्तं वाजिखुरप्रणुन्नम्
द्विजातिमध्ये विचरन्तं च धौम्यं विक्रोशन्तं भीममभ्यद्रवेति
त्वं ते सतां धौम्यमदीनसत्त्वाः दृष्ट्वा तु सर्वे क्षिति राजपुत्राः
श्येना यथैवामिषसम्प्रणुम्ना जवेन तत्सैन्यमथाभ्यधावन्
तेषां महेन्द्रोपमविक्रमाणां संरब्धानां धर्षणाद्याज्ञसेन्याः
कोपः प्रजज्वाल जयद्रथं च दृष्ट्वा प्रियां तस्य रथे स्थितां च
प्रचुक्रुशुश्चाप्यथ सिन्धुराजं वृकोदरश्चैव धनञ्जयश्च
यमौ च राजा च महाधनुर्धरास्ततो दिशस्सम्मुमुहुः परेषाम्