वैशम्पायनः-
तथा वनेषु सर्वेषु तेषु राजसु भारत
कोटिकाश्यवचश्श्रोतुं शैब्यं सौवीरकोऽब्रवीत्
सौवीरकः-
यदि वाचं व्याहरन्त्यामस्यां मे रमते मनः
सीमन्तिनीनां मुख्यायां विनिवृत्तः कुतो भवान्
एतां दृष्ट्वा स्त्रियो मेऽन्या यथा शाखामृगस्त्रियम्
प्रतिभान्ति महाबाहो सत्यमेतद्ब्रवीमि ते
दर्शनादेव हि मनस्तया मेऽपहृतं भृशम्
तां ममाचक्ष्व कल्याणीं यदि स्याच्छैब्य मानुषी
कोटिकाश्यः-
एषा वै द्रौपदी कृष्णा राजपुत्री यशस्विनी
पञ्चानां पाण्डुपुत्राणां सम्मता महिषी भृशम्
सर्वेषां चैव पार्थानां या वै प्रियतमा सती
तया समेत्य सौवीर सौवीरान्सुसुखं व्रज
वैशम्पायन उवाच
एवमुक्तः प्रत्युवाच पश्यामि द्रौपदीमिति
नृपस्सौवीरसिन्धूनां दुष्टभावो जयद्रथः
सम्प्रविश्याश्रमं पुण्यं सिंहः क्षुद्रमृगो यथा
आत्मना सप्तदशमः कृष्णां वचनमब्रवीत्
जयद्रथः-
कुशलास्ते वरारोहे भर्तारस्तेऽप्यनामयाः
येषां कुशलकामाऽसि तेषां कच्चिदनामयम्
द्रौपदी-
कौरव्यः कुशली राजा कुन्तीपुत्रो युधिष्ठिरः
अहं च भ्रातरश्चास्य यांश्चान्यान्परिपृच्छसि
अपि त्वं कुशली राजन्सहामात्यस्सहप्रजः
अपि ते कुशलं राष्ट्रे तथा कोशे च सैन्धव
कच्चिदेव शबीन्सर्वान् सौवीरांश्चाप्यकण्टकान्
अनुतोष्ठसि धर्मेण ये चान्ये विजितास्त्वया
पाद्यं प्रतिगृहाणेत्वमासनं च नृपात्मज
मृगान्हत्वा नृपश्रेष्ठ प्रातराशं ददानि ते
ऐणेयान्पृषतान्न्यङ्कून्हरिणाञ्शरभाञ्शशान्
ऋक्षान्रुरूश्च चमरान्गवयांश्च मृगान्बहून्
वराहान्महिषांश्चैव याश्चान्या मृगजातयः
प्रदास्यति स्वयं तुभ्यं कुन्तीपुत्रो युधिष्टिरः
जयद्रथः-
कुशलं प्रातराशस्य सर्वा मेऽपचितिः कृता
एहि मे रथमारोह सुखमाप्नुहि केवलम्
हतश्रीकांश्च्युतान्राज्यान्कृपणान्गतचेतसः
अरण्यवासिनः पार्थान्नानुरोद्धुं त्वमर्हसि
नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते
युञ्जानमनुयुञ्जीत न शरियस्सङ्क्षये वसेत्
श्रिया विहीना राज्याच्च राज्याच्च शाश्वतीस्समाः
अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम्
भार्या मे भव सुश्रोणि त्यजैनान्मुखमाप्नुहि
अखिलान्सिन्धुसौवीरानाप्नुहि त्वं मया सह
वैशम्पायनः-
इत्युक्ता सिन्धुराजेन वाक्यं हृदयकम्पनम्
कृष्णा तस्मादपाक्रामद्देशात्सा भ्रुकुटीमुखी
अवमत्यास्य तद्वाक्यमाक्षिप्य च सुमध्यमा
मैवमित्यब्रवीत्कृष्णा त्यजस्वेति च सैन्धवम्
द्रौपदी-
सा काङ्क्षमाणा भर्तॄणामुपयातमनिन्दिता
विलोभयामास परं वाक्यैर्वाक्यान्ययोजयत्
नैवं वद महाबाहो न्याय्यं त्वं न च मन्यसे
पाण्डूनां धार्तराष्ट्राणां स्वसा चैव कनीयसी
दुश्शला नाम तस्यास्त्वं भर्ता राजकुलोद्वह
मम भ्राता च न्याय्येन त्वया रक्ष्या महारथ
धर्मिष्ठानां कुले जातो न धर्मं त्वमवेक्षसे
वैशम्पायनः-
इत्युक्तस्सिन्धुराजोथ वाक्यमुत्तरमब्रवीत्
जयद्रथः-
राज्ञां धर्मं न जानीषे स्त्रियो रत्नानि चैव हि
साधारणानि लोकेऽस्मिन्प्रवदन्ति मनीषिणः
स्वसा च स्वस्रिया चैव भ्रातृभार्या तथैव च
न सङ्गृह्णन्ति राजानस्ताश्च तत्र नृपोद्भवाः