कोटिकाश्यः-
का त्वं कदम्बस्य विनम्य शाखां किमाश्रमे तिष्ठसि शोभमाना
देदीप्यमानाऽग्निशिखेव नक्तं व्याधूयमाना पवनेन सूभ्रूः
अतीव रूपेण समन्विता त्वं न चाप्यरण्ये तु बिभेषि का नु
देवी नु यक्षी यदि माणुषी वा वराप्सरा दैत्यवराङ्गना वा
वपुष्मती वोरगराजकन्या वनेचरी वा क्षणदाचरस्त्री
यद्येव राज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य
धातुर्विधातुस्सवितुर्विभोर्वा शक्रस्य वा त्वं सदनात्प्रपन्ना
न ह्येव नः पृच्छसि ये वयं स्म न चापि जानीम तवेह नाथम्
वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रे प्रभवं भुवं च
आचक्ष्व बन्धूंश्च पतिं कुलं च यच्चेह किं वाऽद्य करोषि कार्यम्
अहं तु राज्ञस्सुबलस्य पुत्रो यं कोटिकाश्येति विदुर्मनुष्याः
वश्येन्द्रियस्सभ्यरुचिर्वरोरु वृद्धोपसेवी गुरुपूजकश्च
अथो नु यस्तिष्ठति काञ्चनाङ्गे यथा हुतोऽग्निश्चयने तथैव
त्रिगर्तराजः कमलायताक्षि क्षेमङ्करो नाम क एष वीरः
अस्मात्परस्त्वेष महाधनुष्मान्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः
निरीक्षते त्वां विपुलायतांसो भुवि स्थितः पर्वतवासनित्यः
असौ तु यः पुष्करिणीसमीपे श्यामो युवा तिष्ठति दर्शनीयः
इक्ष्वाकुराजस्सुबलस्य पुत्रस्स एव हन्ता द्विषतां सुगात्रः
यस्यानुयात्रं ध्वजिनः प्रयान्ति सौवीरका द्वादशराजपुत्राः
शोणाश्वयुक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः
अङ्गारकः कुञ्जरगुप्तकौ च शत्रुञ्जयस्सञ्जयसुप्रबुद्धौ
भयङ्करोऽथ भ्रमरो रविश्च शूरः प्रतापः कुहकश्च नाम्ना
यं षट्सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातयश्च
जयद्रथो नाम यदि श्रुतस्ते सौवीरराजस्सुभगे स एषः
तस्यापरे भ्रातरोऽदीनसत्त्वा बलाहकानीकविदारणाद्याः
सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति
एतैस्सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः
सा जानती ख्यापय नस्सुकेशि कस्याथ भार्या दुहिता च कस्य