वैशम्पायनः-
तस्मिन्बहुमृगेऽरण्ये अटमाना महारथाः
काम्यके भरतश्रेष्ठा विजह्रुस्ते महाबलाः
प्रेक्षमाणा बहुविधान्वनोद्देशान्समन्ततः
यथर्तुकालरम्याश्च वनराजीस्सुपुष्पिताः
पाण्डवा मृगयाशीलाश्चरन्तस्तन्महद्वनम्
विजह्रुरिन्द्रप्रिमाः कालं शिष्टमरिन्दमाः
ततस्ते यौगपद्येन ययुस्सर्वे चतुर्दिशम्
मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परन्तपाः
द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया
महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः
ततस्स राजा सिन्धूनां वार्धक्षत्रिर्महायशाः
कर्तुं विवाहं साल्वेयाान्प्रयातोऽथागमत्तदा
महता परिबर्हेण राजयोग्येन संवृतः
राजभिर्बहुभिस्सार्धमुपायात्काम्यकं वनम्
तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम्
तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने
विभ्राजमानां वपुषा बिभ्रन्तीं रूपमुत्तमम्
भ्राजयन्तीं वनोद्देशं नीलाभ्रमिव विद्युतम्
अप्सरा देवकन्या वा माया वा देवनिर्मिता
इति कृत्वाञ्जलिं सर्वे ददृशुस्तामनिन्दिताम्
ततस्स राजा सिन्धूनां वार्धक्षत्रिर्जयद्रथः
विस्मितस्तामनिन्द्याङ्गीं दृष्ट्वाऽऽसीद्दुष्टमानसः
स कोटिकाश्यं राजानमब्रवीत्काममोहितः
जयद्रथः-
कस्य कैषाऽप्यनिन्द्याङ्गी यदि वाऽपि न मानुषी
विवाहेच्छा न मे कश्चिदिमां दृष्ट्वाऽतिमुन्दरीम्
एतामेवाहमादाय गमिष्यामि स्वमालयम्
गच्छ जानीहि सौम्येमां कस्य का च कुतोऽपि वा
किमर्थमागता सुभ्रूरिदं कण्टकितं वनम्
अपि नाम वरारोहा मामेषा लोकसुन्दरी
भजेदद्यायतापाङ्गी सुदती तनुमध्यमा
अप्यहं कृतकामस्स्यामिमां प्राप्य वरस्त्रियम्
गच्छ जानीहि को वाऽस्या नाथस्सम्यग्विचारय
वैशम्पायनः-
स कोटिकाश्यस्तच्छ्रुत्वा मैत्र्या प्रस्कन्द्य तद्रथात्
उपेत्य पप्रच्छ तदा क्रोष्टा व्याघ्रवधूमिव