युधिष्ठिरः-
व्रीहिद्रोणः परित्यक्तः कथं तेन महात्मना
कस्मै दत्तश्च भगवन्विधिना केन चात्थ मे
प्रत्या धर्मो हि भगवान्यस्य तुष्टो हि कर्मभिः
सफलं तस्य जन्माहं मन्ये सद्धर्मचारिणः
व्यासः-
शिलोञ्छवृत्तिर्धर्मात्मा मुद्गलस्संयतेन्द्रियः
आसीद्राजन्कुरुक्षेत्रे सत्यवागनसूयकः
अतिथिव्रतः क्रियावांश्च कापोतीं वृत्तिमास्थितः
सत्रमिष्टीकृतं नाम समुपास्ते महातपाः
सपुत्रदारो हि मुनिः पक्षाहारो बभूव ह
कपोतवृत्त्या पक्षेण व्रीहिद्रोणमुपार्जयत्
दर्शं च पौर्णमासं च कुरुते गतमत्सरः
देवतातिथिशेषेण कुरुते देहयापनम्
तत्रेन्द्रस्सहितो देवैस्साक्षात्त्रिभुवनेश्वरः
प्रत्यगृह्णान्महाराज भागं पर्वणि पर्वणि
सर्वकाल्यं भागं तु मुनिवृत्त्या समन्वितः
अतिथिभ्यो ददावन्नं प्रहृष्टेनान्तरात्मना
व्रीहिद्रोणस्य तत्प्रीत्या ददतोऽन्नं महात्मनः
ऋषेर्मात्सर्यहीनस्य वर्धत्यतिथिदर्शनात्
तच्छतान्यपि भुञ्जन्ति ब्राह्मणानां महात्मनाम्
मुनेस्त्यागविशुद्ध्या तु तदन्नं वृद्धिमृच्छति
तं तु शुश्राव धर्मिष्ठं मुद्गलं संयतेन्द्रियम्
दुर्वासा नृप दिग्वासास्तमथाभ्याजगाम ह
विभ्रच्चानियतं वेषमुन्मत्त इव पाण्डव
विकचः परुषा वाचो व्याहरन्विविधा मुनिः
अभिगम्याथ तं विप्रमुवाच मुनिसत्तमः
दुर्वासाः-
अन्नार्थिनमनुप्राप्तं विद्धि मां मुनिसत्तम
वैशम्पायनः-
स्वागतं तेऽस्त्विति मुनिं मुद्गलः प्रत्यभाषत
पाद्यमाचमनीयं च प्रतिवेद्यान्नमुत्तमम्
प्रादात्स तपसोपात्तं क्षुधितायातिथिप्रियः
उन्मत्ताय परां श्रद्धामास्थाय सुधृतव्रतः
ततस्तदन्नं रसवत्स एव क्षुधयार्दितः
बुभुजे कृत्स्नमुन्मत्तः प्रादात्तस्मै च मुद्गलः
भुक्त्वाऽथान्नं ततस्सर्वमुच्छिष्टेनात्मनस्ततः
अथाङ्गं लिलिपेऽङ्गानि जगाम च यथागतम्
एवं द्वितीये सम्प्राप्ते पर्वकाले मनीषिणः
आगम्य बुभुजे सर्वमन्नमुञ्छोपजीविनः
निराहारस्तु स मुनिरुञ्छमार्जयते पुनः
न चैनं विक्रियां नेतुमशकन्मुद्गलं क्षुधा
न क्रोधो न च मात्सर्यं नावमानो न सम्भ्रमः
सपुत्रदारमुञ्छन्तमाविवेश द्विजोत्तमम्
तथा तमुञ्छधर्माणं दुर्वासा मुनिसत्तमम्
उपतस्थे यथाकालं षट्कृत्वः कृतनिश्चयः
न चास्य मनसः कश्चिद्विकारो दृश्यते मुनेः
शुद्धसत्त्वस्य शुद्धं स ददृशे निर्मलं मनः
तमुवाच ततः प्रीतस्स मुनिर्मुद्गलं तदा
दुर्वासाः-
त्वत्समो नास्ति लोकेऽस्मिन्दाता मात्सर्यवर्जितः
क्षुद्धर्मसञ्ज्ञां प्रणुदत्यादत्ते धैर्यमेव च
विषयानुसारिणी जिह्वा क्षीरत्येव रसं प्रति
आहारप्रभवाः प्राणा मनो दुर्निग्रहं चलम्
मनसश्चेन्द्रियाणां च एकाग्र्यं निश्चितं तपः
श्रमेणोपार्जितं दुःखं न च दुःखेन चेतसा
तत्सर्वं भवता साधो यथावदुपपादितम्
प्रीतोऽस्म्यनुगृहीताश्च समेत्य भवता सह
पावनं परमं मन्ये दर्शनं ते महामुने
इन्द्रियाभिजयो धैर्यं संविभागो दमश्शमः
दया सत्यं च धर्मश्च त्वयि सर्वं प्रतिष्ठितम्
विशुद्धसत्त्वसम्पन्नो न त्वदन्योऽस्ति कश्चन
जितास्ते कर्मभिर्लोकाः प्राप्तोऽसि परमां गतिम्
अहोऽद्य दानं घुष्टं ते सुमहत्स्वर्गवासिभिः
सशरीरो भवान्गन्ता स्वर्गं सुचरितव्रत
वैशम्पायनः-
इत्येवं वदतस्तस्य तदा दुर्वाससो मुनेः
देवदूतो विमानेन मुद्गलं प्रत्यपद्यत
हंससारसयुक्तेन किङ्किणीजालमालिना
कामगेन विचित्रेण दिव्यगन्धयुता तथा
उवाच चैनं विप्रर्षिं विमानं कर्मभिर्जितम्
देवदूतः-
वैशम्पायनः-
समुपारोह संसिद्धिं प्राप्तोऽसि परमां गतिम्
तमेवंवादिनमृषिर्देवदूतमुवाच ह
मुद्गलः-
इच्छामि भवता प्रोक्तान्गुणान्स्वर्गनिवासिनाम्
के गुणास्तत्र वसतां किं तपः कश्च निश्चयः
स्वर्गे तत्र सुखं किञ्चिद्दोषो वा देवदूतक
सतां साप्तपदं मित्रमाहुस्सन्तः कुलोचिताः
मित्रतां च पुरस्कृत्य पृच्छामि त्वामहं विभो
यदत्र तथ्यं पथ्यं च तद्ब्रूहि त्वं विचारयन्
श्रुत्वा तदा करिष्यामि व्यवसयं गिरा तव