व्यासः-
युधिष्ठिर महाबाहो शृणु धर्मभृतां वर
नातप्ततपसो लोके प्राप्नुवन्ति महत्फलम्
सुखदुःखे हि पुरुषः पर्यायेण हि सेवते
नात्यन्तमसुखं कश्चित्प्राप्नोति भरतर्षभ
प्रज्ञावांस्त्वेव पुरुषस्संयुक्तः परया धिया
उदयास्तमयज्ञो हि न शोचति न हृष्यति
सुखमापतितं स्नेहाद्दुःखमापतितं सहेत्
कालं प्राप्तमुपासीत सस्यानामिव कर्षकः
तपसो हि परं नास्ति तपसा विन्दते महत्
नासाध्यं तपसः किञ्चिदिति बुध्यस्व भारत
सत्यमार्जवमक्रोधस्संविभागो दमश्शमः
अनसूयाऽविहिंसा च शौचमिन्द्रियसंयमः
साधनानि महाराज नराणां पुण्यकर्मणाम्
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः
कृच्छ्रां योनिमनुप्राप्य सुखं विन्दन्ति नो जनाः
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते
तस्माच्छरीरं युञ्जीत तपसा नियमेन च
यथाशक्ति प्रयच्छेत सम्पूज्याभिप्रणम्य च
काले प्राप्ते च हृष्टात्मा राजन्विगतमत्सरः
सत्यवादी लभेतायुरनायासमथार्जवम्
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम्
दान्तश्शमपरश्शश्वत्परिक्लेशं न विन्दति
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम्
संविभक्ता च दाता च भोगवांश्च सुखी नरः
भवत्यहिंसकश्चैव परमारोग्यसंयुतः
मान्यान्मानयिता जन्म कुले महति विन्दति
वचनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः
विन्दते सुखमत्यन्तमिह लोके परत्र च
शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा
प्रादुर्भवति तद्योगात्कल्याणमतिरे सति
युधिष्ठिरः-
भगवन्दानधर्माणां तपसो वा महामुने
किंस्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते
व्यासः-
दानान्न दुष्करतरं पृथिव्यामस्ति किञ्चन
अर्थेषु महती तृष्णा स च दुःखेन लभ्यते
परित्यज्य प्रियान्प्राणान्धनार्थे दुर्गमं स्थलम्
प्रविशन्ति महावीराश्चार्थार्थं सकला भुवि
तथैव प्रतिपद्यन्ते समुद्रमटवीं तथा
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः
पुरुषाः प्रेक्ष्य तानेके निर्गच्छन्ति धनार्थिनः
तस्य द्दुःखार्जितस्यैव परित्यागो हि दुष्करः
स दुष्करतरं दानात्तस्माद्दानं गतं मम
विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम्
पात्रे काले च देशे च प्रयतः प्रतिपादयेत्
अन्यायात्समुपात्तेन दानधर्मौ धनेन यः
कुरुते न स कर्तारं त्रायते महतो भयात्
न्यायार्जितं स्वल्पमपि काले दत्तं युधिष्ठिर
मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः