वैशम्पायनः-
वने निवसतां तेषां पाण्डवानां महात्मनाम्
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम्
प्राप्तकालमनुप्राप्तस्तेस्तत्पुरुषर्षभाः
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्
अचिन्तयन्महाबाहुर्भ्रातॄणां दुःखमुत्तमम्
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितः
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि
संस्मरन्परुषा वाचस्सूतपुत्रस्य पाण्डवः
निश्श्वासपरमो दीनो दध्रे कोपविषं महत्
अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी
स च भीमो महातेजास्सर्वेषामुत्तमो बले
चिरस्य जातं धर्मज्ञं सासूयमिव ते तदा
युधिष्ठिरमुदीक्षन्तस्सेहुर्दुःखमनुत्तमम्
अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः
कस्यचित्त्वथ कालस्य व्यासस्सत्यवतीसुतः
आजगाम महायोगी पाण्डवानवलोककः
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि
तमासीनमुपासीनश्शुश्रूषुर्नियतेन्द्रियः
तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः
तान्वेक्ष्य च कृशान्पौत्रान्वने वन्येन जीवतः
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम्