जनमेजयः-
दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि
वैशम्पायनः-
ततश्शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः
सुप्तं ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम्
तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन्
युधिष्ठिरः-
ब्रूत यद्वक्तुकामास्स्थ के करिष्याम्यशेषतः
वैशम्पायनः-
एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना
प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम्
मृगाः-
वयं मृगा द्वैतवने हतशिष्टास्स्म भारत
नोत्सीदेम महाराज क्रियतां वासपर्ययः
भवन्तो भ्रातरश्शूरास्सर्व एवास्त्रकोविदाः
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम्
बीजभूता वयं केचिदवशिष्टा महामते
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर
वैशम्पायनः-
तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान्
मृगान्दृष्ट्वा सुदुःखार्तान्हृतराष्ट्रो युधिष्ठिरः
स तथेत्यब्रवीद्राजा सर्वभूतहिते रतः
यूधिष्ठिरः-
तथ्यं भवन्तो ब्रुवते तत्करिष्यामि वो वचः
वैशम्पायनः-
इत्येवं प्रतिबुद्धस्सन्शिष्टायां निशि पार्थिवः
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति
युधिष्ठिरः-
उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः
तत्र श्रान्तास्स्म भद्रं ते दया नः क्रियतामिति
ते सत्यमाहुः कर्तव्यं दयाऽस्माभिर्वनौकसाम्
हृष्टं मासं वने हर्षाद्यदेतद्वै सरः प्रति
अर्जुनः-
त्वदधीना वयं काम्यकं काननोत्तमम्
यत्रैव मयसे पार्थ तत्र गच्छामहेवयम्
युधिष्ठिरः-
पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम्
मरुभूश्शिखरं ख्यातं तृणबिन्दुसरः प्रति
तत्र मांसान्वने शिष्टान्विदिन्वन्तो रमेमहि
वैशम्पायन उवाच
इत्युक्तास्ते महात्मानः पाण्डवेन महात्मना
ब्राह्मणैस्सहिता राजन्जग्मुस्तत्र सहोषितैः
इन्द्रसेनादिभिश्चैव भृत्यैरनुगताश्च ते
ते यात्वा तु रथैर्मार्गैश्शनैश्शुचिजलान्वितैः
ददृशुः काम्यकं पुण्यमाश्रमं तापसान्वितम्
ददृशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा
तद्वनं भरतश्रेष्ठास्स्वर्गं सुकृतिनो यथा