वैशम्पायनः-
प्रविशन्तं महाराज सूतास्तुष्टुवुरच्युतम्
मागधाश्च महेष्वासं नागराज सहस्रशः
लाजैश्चन्दनपुष्पैश्च व्यकीर्यन्त जनास्तदा
ऊचुर्दृष्ट्वा नृपाविघ्नस्समाप्तोऽयं क्रतुस्तव
वादिकाः-
अपरे त्वब्रुवंस्तत्र वादिकास्तं महीपतिम्
यौधिष्ठिरस्य यज्ञस्य न समो ह्येष ते क्रतुः
वैशम्पायनः-
न वै तस्य क्रतोरेष कलामर्हति षोडशीम्
एवं तत्राब्रुवन्केचिद्वादिकास्तं नरेश्वरम्
सुहृदस्त्वब्रुवंस्तत्र क्रतून्सर्वानयं ह्यति
ययातिर्नहुषश्चापि मान्धाता भरतस्तथा
क्रतुमेनं समाहृत्य पूतास्सर्वे दिवं गताः
एता वाचश्शुभाश्शृण्वन्सुहृदां भरतर्षभ
प्रविवेश पुरं हृष्टस्स्वयमेव नराधिपः
अभिवाद्य ततः पादौ मातापित्रोर्विशां पते
भीष्मद्रोणकृपाणां च विदुरस्य च भारत
तमुत्थाय महाराजं सूतपुत्रोऽब्रवीद्वचः
सूतपुत्रः-
आहृतोऽहं नरश्रेष्ठ त्वां सभाजयिता जनः
दिष्ट्या ते भरतश्रेष्ठ समाप्तोऽयं क्रतूत्तमः
हतेषु युधि पार्थेषु राजसूयस्तथा त्वया
वैशम्पायनः-
तमब्रवीन्महाराजो धार्तराष्ट्रो महायशाः
दुर्योधनः-
सत्यमेतत्त्वया वीर पाण्डवेषु महात्मसु
निहतेषु रणे वीर्यात्प्राप्ते चापि महाक्रतौ
राजसूये महाराज त्वं मांसं वर्धयिष्यसि
वैशम्पायनः-
एवमुक्त्वा महाराज कर्णमाश्लिष्य भारत
राजसूयं क्रतुश्रेष्ठं चिन्तयामास कौरवः
सोऽब्रवीत्सुहृदश्चापि पार्श्वस्थान्नृपसत्तमः
राधेयसौबलादीन्वीक्ष्य धार्तराष्ट्रो महीपतिः
दुर्योधनः-
कदा तु तं क्रतुवरं राजसूयं महाधनम्
निहत्य पाण्डवान्सर्वानाहरिष्यामि कौरवाः
वैशम्पायनः-
तमब्रवीत्तदा कर्णश्शृणु मे राजकुञ्जर
कर्णः-
पादौ न धावये तावद्यावन्न निहतोऽर्जुनः
कीलालजं न खादेयं करिष्ये चासुरव्रतम्
वैशम्पायनः-
फल्गुनस्य प्रतिज्ञाते वधे कर्णेन संयुगे
विजितांश्चाप्यमन्यन्त पाण्डवान्धृतराष्ट्रजाः
तत्र प्रतिज्ञामारुह्य सूतपुत्रेण भाषिते
दुर्योधनोऽपि राजेन्द्र विसृज्य नरपुङ्गवान्
प्रविवेश गृहं श्रीमान्यथा चैत्ररथं प्रभुः
तेऽपि सर्वे महेष्वासा जग्मुर्वेश्मानि भारत
स्वानि स्वानि महाराज भीष्मद्रोणादयो नृप
पाण्डवाश्च महेष्वासा दूतवाक्यप्रचोदिताः
चिन्तयन्तस्तमेवार्थं नालभन्त सुखं क्वचित्
भूयश्चारैर्नृपश्रेष्ठ प्रवृत्तिरुपपादिता
प्रतिज्ञा सूतपुत्रस्य विजयस्य वधं प्रति
एतच्छ्रुत्वा धर्मराजस्स समुद्विग्नो नराधिप
अधोमुखश्चिरं तस्थौ किं कार्यमिति चिन्तयन्’
अभेद्यकवचं मत्वा कर्णमद्भुतविक्रमम्
अनुस्मरन्सुसङ्क्लेशान्न शान्तिमुपजग्मिवान्
तस्य चिन्तापरीतस्य बुद्धिर्जज्ञे महात्मनः
बहुव्यालमृगाकीर्णं त्यक्तुं द्वैतवनं सरः
धार्तराष्ट्रो नरपतिः प्रशशास वसुन्धराम्
भ्रातृभिस्सहितो वीरैर्भीष्मद्रोणकृपैस्तथा
सङ्गम्य सूतपुत्रेण कर्णेनाहवशोभिना
सततं प्रीयमाणो वै देविना सौबलेन च
दुर्योधनः प्रिये नित्यं वर्तमानो महीपतेः
पूजयामास विप्रेन्द्रान्क्रतुभिर्भूरिदक्षिणैः
भ्रातॄणां च प्रियं राजन्स चकार परन्तपः
निश्चित्य मनसा वीरो दत्तभुक्तफलं धनम्