वैशम्पायनः-
ततस्तु शिल्पिनस्सर्वं कृतमूर्चुर्नराधिपम्
विदुरश्च महाप्राज्ञो धृतराष्ट्रे न्यवेदयत्
विदुरशिल्पिनः-
सज्जं कृतं महाराज कालप्राप्तं च भारत
सौवर्णं च कृतं सर्वं लाङ्गलं च महाधनम्
वैशम्पायनः-
एवच्छ्रुत्वा नृपश्रेष्ठो धृतराष्ट्रो महीपतिः
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी
निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च
ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः
तत्र कञ्चित्प्रयान्तं तु दूतं दुश्शासनोऽब्रवीत्
दुश्शासनः-
वैशम्पायनः-
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान्
निमन्त्रय यथान्यायं विप्रांस्तस्मिन्वने तदा
स गत्वा पाण्डवान्सर्वानुवाचाभिप्रणम्य च
दूतः-
दुर्योधनो महाराज यजते नृपसत्तमः
स्ववीर्यार्जितमर्थौघमवाप्य कुलनन्दनः
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः
अहं तु प्रेषितो राजन्कौरवेण महात्मना
आमन्त्रयति वो राजा धार्तराष्ट्रो महीपति
मनोभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ
वैशम्पायनः-
ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्
अब्रवीन्नृपशार्दूलो दिष्ट्या यज्ञं सुयोधनः
युधिष्ठिरः-
यजते क्रतुमुख्येन सर्वेषां कीर्तिवर्धनः
वयमप्युपयास्यामो न त्विदानीं कथञ्चन
वैशम्पायनः-
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम्
श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत्
भीमः-
स तदा नृपतिर्गन्ता धर्मराजो युधिष्ठिरः
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति
वर्षात्त्रयोदशादूर्ध्वं नरसत्रे नराधिपः
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः
आगन्तारस्तदा स्मेति वाच्य एव सुयोधनः
वैशम्पायनः-
शेषास्तु पाण्डवा राजन्नैवोचुः किञ्चिदप्रियम्
दूतश्चतद्यथावृत्तं धार्तराष्ट्रे न्यवेदयत्
अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः
ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति
ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम्
मुदा परमया युक्ताः प्रीत्या चापि नरेश्वराः
धृतराष्ट्रोऽपि राजेन्द्र संवृतस्सर्वकौरवैः
हर्षेण महता युक्तो विदुरं प्रत्यभाषत
धृतराष्ट्रः-
यथा सुखं जनस्सर्वः क्षत्तस्स्यादन्नसंयुतः
हृष्ये्च्च यज्ञसदने तथा नीतिर्विधीयताम्
वैशम्पायनः-
विदुरस्त्वेवमाज्ञप्तस्सर्ववर्णानरिन्दम
यथा प्रमाणतो विद्वान्पूजयामास धर्मवित्
भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः
वासोभिर्विविधैश्चैव योजयामास हृष्टवत्
कृत्वाऽह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम्
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु
विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः
विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः
विवेश हास्तिनपुरं सहितः कर्णसौबलैः