जनमेजयः-
वर्तमानेषु पार्थेषु पाण्डवेषु महात्मसु
धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तम
कर्णो वैकर्तनश्चैव शकुनिश्चापि सौबलः
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि
वैशम्पायनः-
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः
भीष्मः-
उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम्
गमनं ते न रुचितं मम तन्न कृतं त्वया
ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्
मोक्षितश्चासि धर्मज्ञैः पाण्डवैश्च च लज्जसे
प्रत्यक्षं तव गान्धारे ससैन्यस्य विशाम्पते
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात्
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मते
न चापि पादभाक्कर्णः पाण्डवानां महात्मनाम्
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल
तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः
सन्धिं सन्धिविदां श्रेष्ठ कुलस्यास्य विवृद्धये
वैशम्पायनः-
एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः
तं तु प्रस्थितमाज्ञाय कर्णदुश्शासनादयः
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं जनेश्वरम्
तांस्तु सम्प्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः
लज्जया च ततो राजा जगाम स्वं निवेशनम्
गते भीष्मे महाराज धार्तराष्ट्रो महाबलः
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः
सहस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते
कथं नु सुकृतं तत्स्यान्मन्त्रयामास भारत
कर्णः-
दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि कौरव
श्रुत्वा च तत्तथा सर्वं कत्रुमर्हस्यरिन्दम
वैशम्पायनः-
तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम
तां पालय यथा शक्रो हतशत्रुर्महामनाः
एवमुक्तस्तु कर्णेन राजा कर्णम्मथाऽब्रवीत्
दुर्योधनः-
न किञ्चिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः
अभिप्रायस्तु मे कश्चित्तं मे शृणु यथातथम्
वैशम्पायनः-
राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा
मम स्पृहा समुत्पन्ना तां सम्पादय सूतज
एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत्
कर्णः-
तवाद्य पृथिवीपालास्सर्वे वश्या नृपोत्तम
आहूयन्तां द्विजवरास्सम्भाराश्च यथाविधि
सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च
ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिन्दम
बह्वन्नपानसंयुक्तस्सुसमृद्धगुणान्वितः
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ
वैशम्पायनः-
एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते
पुरोहितं समानाय्य वचनं चेदमब्रवीत्
दुर्योधनः-
वैशम्पायनः-
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम्
आहरस्व यथाशास्त्रं यथान्यायं यथाक्रमम्
स एवमुक्तो नृपतिमुवाच द्विजसत्तमः
पुरोहितः-
ब्राह्मणैस्सहितो राजन्ये तत्रासन्समागताः
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम
दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता नृप
अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तमः
अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम
य इमे पृथिवीपालाः करदास्तव पार्थिव
ते करं सम्प्रयच्छन्तु सुवर्णकमृतं कृतम्
तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम
यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत
तत्र यज्ञो नृपश्रेष्ट प्रभूतान्नस्सुसंस्कृतः
प्रवर्ततां यथान्यायं संशयोऽपि निवारितः
एष वै वैष्णवो नाम यज्ञस्सत्पुरुषोचितः
एतेन नेष्टवान्कश्चिदृते विष्णुं सनातनम्
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः
अस्माकं रोचते चैष श्रेयश्च तव भारत
अभग्नश्च भवदेष सफला च स्पृहा च सा
तस्मादेष महाबाहो तव यज्ञः प्रवर्तताम्
एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः
कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत्
दुर्योधनः-
रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः
रोचते यदि युष्माकं तस्मात्प्रब्रूत माचिरम्
वैशम्पायनः-
एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम्
सन्दिदेश ततो राजा व्यापारान्स्वान्यथाक्रमम्
हलस्य करणे चापि व्यादिष्टास्सर्वशिल्पिनः
यथोक्तं तन्नृपश्रेष्ठ कृतं सर्वं यथाक्रमम्