वैशम्पायन उवाच
एवमुक्तं च कर्णेन तच्छ्रुतं कौरव त्वया
त्वं बुद्ध्या नृवर प्राणानुत्स्रष्टुमिह चेच्छसि
मया हृतां श्रियं दीप्तां मोहात्समुपहासि किम्
अद्यचाऽप्यवगच्छामि न वृद्धास्सेवितास्त्वया
यस्समुत्पतितं दैन्यं बुद्ध्या च न नियच्छति
नश्यते हि श्रियं प्राप्य वात्या नावमिवाम्भसि
अतिभीरुं मृदुं क्लीबं दीर्घसूत्रं प्रमादिनम्
व्यसनाद्विषमं तात न भजन्ति परश्रियः
सत्कृतस्य हि ते शोको विपरीतः कथं भवेत्
मा कृतं शोभनं पार्थैश्शोकमालम्ब्य नाशय
यत्र हर्षस्त्वया कार्यस्सत्कर्तव्याश्च पाण्डवाः
अत्र शोचसि राजेन्द्र विपरीतमिदं तव
प्रसीद नः कृतं मानं सन्तुष्टस्सुकृतं स्मर
प्रयच्छ राज्यं पाण्डूनां यशो धनमवाप्नुहि
क्रियामेतां समाज्ञाय कृतघ्नो न भविष्यसि
सौभ्रात्रं पाण्डवैः कृत्वा समये स्थाप्य चैव तान्
पित्र्यं राज्यं प्रयच्छैषां ततस्सुखमवाप्स्यसि
वैशम्पायनः-
शकुनेर्वचनं श्रुत्वा दुश्शासनमवेक्ष्य च
पादयोः पतितं दीनं विक्लबं भ्रातृसौहृदात्
बाहुभ्यां संयुजाताभ्यां तं दुश्शासनमरिन्दमम्
उत्थाप्य सम्परिष्वज्य प्रीत्याऽजिघ्रत मूर्धनि
कर्णसौबलयोश्चापि संश्रुत्य वचनान्यसौ
निर्वेदं परमं गत्वा राजा दुर्योधनस्तदा
व्रीलेनाऽभिपरीतात्मा नैराश्यमगमत्परम्
सुहृदां चैव तच्छ्रुत्वा समन्युरिदमब्रवीत्
दुर्योधनः-
न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया
नैव भोगैश्च मे कार्यं मानविघ्नेन गच्छत
निश्चितेयं मम मतिस्सिद्धा प्रायोपवेशने
गच्छध्वं सहितास्सर्वे पूज्याश्च गुरवो मम
वैशम्पायनः-
इत्येवमुक्त्वा प्रत्यूचू राजानमरिमर्दनम्
कर्णसौबलौ-
या गतिस्तव राजेन्द्र साऽस्माकमपि भारत
कथं हि सम्प्रवेक्ष्यामस्त्वद्विहीनाः पुरं वयम्
वैशम्पायनः-
स सुहृद्भिरमात्यैश्च भातृभिस्स्वजनेन च
बहुप्रकारमप्युक्तो निश्चयान्नभिचाल्यते
दर्भासंस्तरमास्तीर्य निश्चयाद्धृतराष्ट्रजः
संस्पृश्यापश्शुचिर्भूत्वा भूतलं समुपाश्रितः
कुशचीराम्बरधरः परं नियममास्थितः
वाग्यतो राजशार्दूलस्स स्वर्गगतिकाङ्क्षया
मनसोपचितिं कृत्वा निरस्य च बहुश्रियम्
तस्थौ प्रायोपवेशे च मतिं कृत्वा सुनिश्चलाम्
अथ तं निश्चयं बुद्ध्वा तस्य दैतेयदानवाः
पातालवासिनो रौद्राः पूर्वं देवैर्विनिर्जिताः
तैस्स्वकस्य क्षयं तं तु ज्ञात्वा दुर्योधनस्य वै
आनयार्थं ततश्चक्रुः कर्म वैतानसम्भवम्
बृहस्पत्युशनोक्तैश्च मन्त्रैर्मन्त्रविशारदाः
अथर्ववेदप्रोक्तैश्च याश्चौपनिषदाः क्रियाः
मन्त्रजप्यसमायुक्तास्तास्तदा स्म समवर्तयन्
जुह्वते गो हविः क्षीरं मन्त्रवत्सुसमाहिताः
ब्राह्मणा वेदवेदाङ्गपारगास्सुदृढव्रताः
अध्वर्यवो दानवानां कर्म कर्मप्रवर्तकाः’
कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता
कृत्या समुत्थिता राजन्किं करोमीति चाब्रवीत्
आहुर्दैत्याश्च तां तत्र सुप्रीतेनान्तरात्मना
दैत्याः-
प्रायोपविष्टं राजानं धार्तराष्ट्रमिहानय
वैशम्पायनः-
तथेति च प्रतिश्रुत्य सा कृत्या प्रययौ तदा
निमेषादगमच्चापि यत्र राजा सुयोधनः
सा तमादाय राजानं प्रविवेश रसातलम्
दानवानां मुहूर्ताच्च पुरतस्तं न्यवेदयत्
मौनिनं तं ततो दृष्ट्वा रात्रौ सङ्गत्य दानवाः
प्रहृष्टमनसस्सर्वे किञ्चिदुत्फुल्ललोचनाः
दृढमेनं परिष्यज्य पृष्ट्वा च कुशलं तदा
साभिमानमिदं वाक्यं दुर्योधनमथाब्रुवन्