कर्णः-
राजन्नद्यावगच्छामि तवैव लघुसत्त्वताम्
अल्पत्वं च तथा बुद्धेः कार्याणामविवेकिताम्
किमत्र चित्रं धर्मज्ञ मोक्षितः पाण्डवैरसि
सद्यो वशं समापन्नश्शत्रूणां शत्रुकर्शन
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम्
प्रायः प्रधानपुरुषाः क्षोभयित्वाऽरिवाहिनीम्
निगृह्यन्ते च वै युद्धे मोक्ष्यन्ते च स्वसैनिकैः
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः
तैस्सङ्गम्य नृपार्थाय यतितव्यं यथातथम्
इत्येवं पाण्डवै राजन्भवद्विषयवासिभिः
यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तमम्
स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे
सत्त्वस्थाः पाण्डवाश्चापि न ते प्रायमुपाविशन्
तदलं ते महाबाहो विषादं कर्तुमीदृशम्
उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि
अवश्यमेव नृपते राज्ञो विषयवासिभिः
प्रियाण्याचरितव्यानि तत्र का परिदेवना
मद्वाक्यमेतद्राजेन्द्र यदि त्वं न करिष्यसि
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन
नोत्सहे जीवितुं सत्यं त्वद्विहीनो नरर्षभः
उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि