वैशम्पायनः-
दुर्योधनः-
एवं चिन्तापरिगतो दुश्शासनमथाब्रवीत्
दुश्शासन निबोधेदं वचनं मम भारत
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम्
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः
ब्राह्मणेषु यथा दान्तं कुरुवीरा्प्रमादतः
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिस्सदा
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान्यथा
गुरवः पालनीयाश्च गच्छ पालय मेदिनीम्
नन्दयन्सुहृदस्सर्वाञ्शात्रवांश्चाह्वय स्वयम्
कर्णं चैनं परिष्वज्य गम्यतामित्युवाच ह
वैशम्पायनः-
तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत्
अश्रुकण्ठस्सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः
प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा
सखेदं पादयोस्तस्य नेत्रजं जलमुत्सृजन्
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति
विदीर्येत्सकला भूमिर्द्यौश्चापि शकलीभवेत्
रविरात्मप्रभां जह्यात्सोमश्शीतांशुतां त्यजेत्
पाशं जलेश जह्याद्धा हिमवाञ्छैलतां व्रजेत्
शुष्येत्तोयं समुद्रस्य भ्विष्यन्ति शतं समाः
न चाहं त्वदृते राजन्प्रशासेयं वसुन्धराम्
पुनःपुनः प्रसीदेति वाक्यं चेदमुवाच ह
दुश्शासनः-
शत्रूणां शोककृद्राजन्सुहृदां शोकनाशनः
त्वमेव नः कुले राजा भविष्यसि न संशयः
वैशम्पायनः-
एवमुक्त्वा स राजेन्द्रं सुस्वरं प्ररुरोद ह
पादौ सङ्गृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत
तथा तौ दुःखितौ दृष्ट्वा दुशासनसुयोधनौ
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत
कर्णः-
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव
न शोकश्शोचमानस्य विनिवर्तेत कर्हिचित्
तदा च शोचतश्शोको व्यसनान्नपकर्षति
सामर्थ्यं किं त्वतश्शोकं शोचमानौ प्रपद्यथः
धृतिं गृह्णीतं मा शत्रूञ्शोचन्तौ नन्दयिष्यथः
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम्
नित्यमेव हितं कार्यं राज्ञो विषयवासिभिः
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः
नार्हस्येवङ्गते मन्युं कर्तुं प्राकृतवद्वृथा
विषण्णास्तव सोदर्यास्त्वयि प्रायं समाश्रिते
तदलं दुःखितानेतान्कर्तुं सर्वान्नराधिप
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान्